पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/५२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
44
अलंकारमणिहारे

श्रीपतित्वादिव्यावृत्तिस्सूचिता । हि यस्मात् शाब्दिकमुनीशिता पाणिनिः तत्पुरुषस्य तादृशत्वदीयपुरुषस्य मुक्तस्य परवत् परमात्मनस्तवेव लिङ्गं चिह्नं भवतीत्यवादीत् । वस्तुतस्तु ‘परवल्लिङ्गं द्वंद्वतत्पुरुषयोः' इति तत्पुरुषस्य उत्तरपदलिङ्गमेवावादीदिति । अत्र स्वाभिमते भागवतानां मुक्तानां भगवच्चिह्नलाभे श्लेषावलम्बनेन पाणिनिसूत्रं प्रमाणतां नीतम् ॥

 यथावा--

 ननु विश्वमेकनीडं यत्र स पुरुषोत्तमात्किमन्यत्स्यात् । विश्वंभरे मुमागममाह ऋषिश्शब्दवित् स्फुटं सक्तम् ॥ २०७१ ॥

 विश्वं इदं सर्वं जगत् यत्र ननु यत्रैव पुरुषे । ननु रवधारणे । एकनीडं अभिन्नस्थानकं ऐकाधिकरण्यभागित्यर्थः । सः पुरुषोत्तमात् पुरुषशब्दाभिलपनीयबद्धमुक्तोभयावस्थप्रत्यगात्मविलक्षणान्नारायणात् अन्यः किं इतरस्स्यात्किम् । किमित्यधिक्षेपे । कदाऽपि न स्यादेवेति भावः । यत्र विश्वमेकनीडमिति पदसंदर्भेण ‘यत्र विश्वं भवत्येकनीडम्’ इति श्रुतिः प्रत्यभिज्ञाप्यते । अमुं बुद्धिस्थं आगमं ‘यत्र विश्वम्’ इत्याद्युदाहृतश्रुतिं विश्वंभरे नारायणे स्वस्मिन् सक्तं तत्परं, शब्दवित् शब्दशब्दोऽत्र ‘शब्दश्चातोऽकामकारे’ इत्यादाविव वेदपरः । वेदविदित्यर्थः । ‘वेदान्तविद्वेदविदेव चाहम्’ इति गानात् । ऋषिः वासुदेवतयाऽवतीर्णो बदरिकाश्रमतापसो नारायण इत्यर्थः । श्रूयते च भगवद्वाचकऋषिशब्दः ‘स्वयं जुह्वत एकऋषिं श्रद्धयन्तः' इति मुण्डके । ‘एकऋषिं मुख्यऋषिं परमात्मानमित्यर्थः’ इत्युपनिषद्भाष्ये व्याख्यातम् । ‘के ते ऋषयः प्राणा वाव ऋषयः’ इति श्रुतिरप्य