पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
32
अलंकारमणिहारे

शयो नः । वृक्ष इव स्तब्ध इति त्वां श्रुतिराहाथ किं वितर्केण ॥ २०५१ ॥

 यथावा--

 यदमी क्रन्दन्ति हरे त्वामवलम्ब्यापि भवपथे मनुजाः । तदचक्षुश्श्रोत्रं त्वां श्रुत्यन्तास्सांप्रतं वदन्तीति ॥ २०५२ ॥

 पूर्वोदाहरणेषु श्रुतिरभिमतार्थे प्रमाणतयोपन्यस्ता । अनयोरुदाहरणयोस्तु— ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः । अचक्षुश्श्रोत्रं तदपाणिपादम्' इति श्रुती अनभिमतार्थे भगवदुपालम्भनपरेण भवपथनिर्विण्णेन प्रमाणतां प्रापिते इति भिदा । स्तब्धः जडः । वास्तवार्थस्तु नन्तव्यवस्तुविरहाद्वृक्ष इवाप्रणतस्वभाव इति ॥

 यथावा--

 विदधानस्सश्रीकान्विप्रान्कमलापते कुचेलमुखान् । न श्री रमते ब्राह्मण इति श्रुतिं वितथवादिनीं व्यदधाः ॥ २०५३ ॥

 अत्र विप्राणां निश्रीकताप्रमाणभूता ‘न वै ब्राह्मणे श्री रमते’ इति श्रुतिः तेषां सश्रीकतानिर्वर्तनेन वितथार्थवादिताप्रकाशनायोपात्तेति पूर्वापेक्षया विशेषः ॥

 स्मृतिरूपशब्दप्रमाणं यथा--

 हृत्कमलं मम विमलं श्रय मृदुलं श्रीश भुजगराडचलम् । विजहीहि चिरं न वसेत्पर्वत इति वर्वृतीति हि स्मरणम् ॥ २०५४ ॥