पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
30
अलंकारमणिहारे

 यथावा--

 यद्ब्रह्म वृषगिरिगतं तज्जगतां सुकृतमेव जानेऽहम्। तत्सुकृतमुच्यत इति श्रुतिराहैतद्धि तैत्तिरीयाणाम् ॥ २०४६ ॥

 अत्र ‘तदात्मानग्ँ स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यते' इति स्वात्मन एवोपादानतया स्वीकारेण सुष्ठु सृज्यप्रपञ्चकरणरूपप्रवृत्तिनिमित्तेन सुकृतशब्दवाच्यतां ब्रह्मणः प्रतिपादयन्ती तैत्तिरीयश्रुतिः भगवति स्वाभिमतजगत्सुकृतरूपलक्षणे अर्थे प्रमाणतां नीता ॥

 यथावा--

 सर्वान्तरात्मनि त्वयि योऽन्यं यजते फणाभृदचलमणे । यजमानः पशुरिति या तां श्रुतिमेतत्परां विजानीमः ॥ २०४७ ॥

 यथावा--

 यजते यस्त्वामविदन्यदुनन्दन सर्वयज्ञभोक्तारम् । यजमानः प्रस्तर इति या श्रुतिरेषा हि तत्परा मन्ये ॥ २०४८ ॥

 सर्वान्तरात्मनि त्वयीत्यनादराधिक्ये भावलक्षणसप्तमी । प्रस्तरो दर्भमुष्टिः पाषाणश्च । सर्वयज्ञभोक्तारं ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च' इति गानादिति भावः । अत एव यदुनन्दनेति साभिप्रायं संबोधनम् । अत्राद्ये पद्ये श्रुत्या अन्यार्थतया रूपितस्य यजमाने पशुत्वस्य अज्ञत्वेन हेतुना