पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
27
शब्दप्रमाणसरः (११५)

 यथा--

 तं विद्धि कौस्तुभमणिं वेंकटगिरिनाथ हृदयमणिनिवहे । योऽत्र सखे गगनान्तरतारकनिकरस्थहिमकराकारः ॥ २०४० ॥

 सुमशरमिव सुकुमारं सुरतरुमिव सन्ततं महोदारम् । जलनिधिमिव गम्भीरं विदाम देवं वृषाचलविहारम् ॥ २०४१ ॥

 अत्र प्रथमोदाहरणे गगनान्तरतारकनिकरस्थहिमकरसदृशाकारताशालिवेंकटगिरिनाथहृदयगतमणिनिवहमध्यस्थितं वस्तु कौस्तुभमणिपदवाच्यमित्युपमानमूलभूतातिदेशवाक्योपन्यासेन तद्वाक्यार्थज्ञानादिदं वस्तु कौस्तुभमणिपदवाच्यमित्युपमितिप्रतीतेरयमुपमानालंकारः । द्वितीयोदाहरणे तु सुमशरमिवेत्यादिवाक्यैः कन्दर्पसदृशसौन्दर्यशालित्वसुरतरुसदृशौदार्यवत्त्वजलनिधिसमगाम्भीर्यवत्त्वानामतिदेशवाक्यार्थभूतसाद्दश्यात्मकानां वृषाचलविहारदेवशब्दवाच्यं विदामेति तत्पदशक्तिग्रहलक्षणोपमितिफलस्य प्रतिपादनादतिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेषः ॥

इत्यलंकारमणिहारे उपमानसरश्चतुर्दशोत्तरशततमः


अथ शब्दप्रमाणसरः (११५)


स शब्दो यत्तु शब्दस्य प्रमाणत्वेन कीर्तनम् ।
श्रुतिस्मृतीतिहासादिरूपश्शब्द इतीर्यते ॥