यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम् ।
रूपकं तद्द्विधाऽभेदताद्रूप्यावसितं विदुः ॥
आरोपे सत्यभेदस्याभेदरूपकमुच्यते ।
ताद्रूप्यरूपकं तत्स्यात्ताद्रूप्यस्य स चेद्भवेत् ॥
तद्द्वयं च त्रिधाऽऽधिक्यन्यूनत्वानुभयोक्तिभिः ।
पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम् ॥
वर्ण्यायां चेदवस्थायामधिकाभेदरूपकम् ।
न्यूनता प्रागवस्थातश्चेन्न्यूनाभेदरूपकम् ॥
आधिक्यन्यूनताभावेऽनुभयाभेदरूपकम् ।
ताद्रूप्यरूपकेऽप्येवं त्रैविध्यं सद्भिरूह्यताम् ॥
प्राचां मते विभागोऽपि रूपकस्य निरूप्यते ।
त्रिधा साङ्गं निरङ्गं च परम्परितमित्यदः ॥
समस्तवस्तुविषयमेकदेशविवर्ति च ।
इति सावयवं चापि द्विविधं तत्र रूपकम् ॥
यत्परस्परसापेक्षनिष्पत्तीनां निबध्यते ।
रूपकाणां तु संघातो भवेत्सावयवं हि तत् ॥
निरूपणेऽवयविनोऽवयवानां च शब्दतः ।
समस्तवस्तुविषयं भवेत्सावयवं हि तत् ॥
आरोप्यमाणं शाब्दं चेत्क्वचिदार्थं च कुत्रचित् ।
एकदेशविवर्त्याख्यमिदं सावयवं विदुः ॥