पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
290
अलङ्कारमणिहारे

 जयतु जगति नित्यं लक्ष्मणार्यस्य पक्षो जयतु निगमचूडादेशिकेन्द्रस्य सूक्तिः । जयतु हयमुखीयास्थानसंपत्समृद्धिः जयतु च वृषशैले श्रीनिवासस्थिरश्रीः ॥ २४२८ ॥

इति श्रीमद्वेदमार्गप्रतिष्ठापनाचार्य परमहंसपरिव्राजकाचार्य सर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्य श्रीमत्कविकथककण्ठीरवचरणनलिनयुगळ विन्यस्तसमस्तात्मभर श्रीमद्रामानुजसिद्धान्तनिर्धारणसार्वभौम श्रीमच्छ्रीनिवासब्रह्मतन्त्रपरकालसंयमिसार्वभौमकरुणाकटाक्षवीक्षिततत्कृपासमधिगतब्रह्मविद्यावैशद्यस्य तत्ताद्दश श्री श्रीनिवासदेशिकेन्द्रब्रह्मतन्त्रपरकालयतीन्द्र महादेशिक कृपासमुपार्जितरहस्यसंप्रदायस्य तच्चरणनलिनसमर्पितात्मरक्षाभरस्य तादृश

श्रीरङ्गनाथब्रह्मतन्त्रपरकालमुनिवरेण्यमहादेशिककृपासुधासारसं
प्राप्त तुरीयाश्रम ब्रह्मतन्त्रपरकालगुरुवरास्थानाभिषेकस्य श्री
कर्णाटदिव्यरत्नसिंहासनसाम्राज्याभिषिक्त श्रीमन्मही
शूरनगराधीश्वर श्रीकृष्णराजसार्वभौम संततिसंतत
देशिकस्य श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रस्य
कृतिषु अलंकारमणिहाराख्यमलंकार-
शास्त्रं संपूर्णम्.

श्री श्रीब्रह्मतन्त्रपरकालगुरुपरम्परायै नमः

समाप्तोयं प्रबन्धः