पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
288
अलङ्कारमणिहारे

 यश्श्रीकर्णाटसिंहासनविदितमहीशूरराजाधिराजान् कृष्णाद्यान्वैष्णवाग्र्यानकृत समहिळाञ् शङ्खचक्राङ्कनाद्यैः । व्याख्यां भाष्यस्य तद्वत्परमुपनिषदां द्रामिडीनां च चक्रे विख्यातोदात्तभूमा स जयतु परकालाभिधानो यतीन्द्रः ॥ २४१९ ॥

 श्रीश्रीनिवासनिगमान्तरमानिवासरामानुजाख्यपरकालमहायतीन्द्राः । व्यूहा इवात्तवपुषो जगतां हिताय चत्वार ऊर्जितसमग्रगुणा जयन्तु ॥

 घण्टावतारनिगमान्तरमानिवासश्रीदेशिकेन्द्रयतिपुङ्गवरङ्गनाथाः । श्रीब्रह्मतन्त्रपरकालपदावतंसा जीयासुरुज्ज्वलगुणा गुरुसार्वभौमाः ॥ २४२१ ॥

 दुराधर्षश्रीमद्यतिपतिमतस्थापनपराः परात्यल्पप्रज्ञप्रथितकुहनापद्धतिहराः । हरौ लक्ष्मीनाथे निहितनिखिलस्वावनभरा धरायां जीयासुः प्रथितयशसोऽस्मद्गुरुवराः ॥ २४२२ ॥

 श्रीवासब्रह्मतन्त्राग्रिमपदकलिजिद्देशिकेन्द्रानघाङ्घ्रिद्वन्द्वाब्जानुग्रहात्तप्रतिपदविविधग्रन्थनिर्मा-