पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
286
अलङ्कारमणिहारे

 निरालोके लोके विमतकथकध्वान्तनिवहैः श्रियःपत्याऽऽज्ञप्तो धरणिमवतीर्यातिकृपया । व्यतानीद्योभाष्यद्युमणिमखिलाज्ञानहृतये स जीयाच्छ्रीरामानुजमुनिवरात्मा फणिपतिः ॥ २४११ ॥

 टीकाकारस्सूत्रकारोऽपि यस्य व्यासाचार्यो भारतख्यातकीर्तिः । तच्छ्रीभाष्यं श्रीयतीन्द्रप्रणीतं भूयान्नित्यं भूयसे श्रेयसे नः ॥ २४१२ ॥

 शेषाद्रीश्वरपादपद्मयुगळीकैंकर्यहेतोः पुरा या घण्टा किल भक्तिनम्रमनसा पद्मासनेनार्पिता । तत्तत्तन्त्रपिशाचधूननकृते संकल्पतः श्रीपतेः जातायै निगमान्तदेशिकनिभात्कस्यैचिदस्यै नमः ॥ २४१३

 जिह्वासिंहासनाग्रस्फुटनटनतुरङ्गास्यमञ्जीरशिञ्जास्पर्धानिर्धार्यवाचानिचयनिचुलितप्रत्यनीकप्रचारः । श्रीमान्रामानुजार्यप्रथिततममतश्रीललामाऽर्कधामा नित्यं श्रुत्यन्तविद्यागुरुरिह जगतां भद्रवत्तां विधत्ताम् ॥ २४१४ ॥

 संसाराटोपतापक्षपणनिपुणवाग्धोरणीसारणीश्रीः वाणीसंपूज्यपादादिमतुरगमहामन्दुराऽऽनन्द