पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
283
ग्रन्थोपसंहारः

वदमृद्गन् । अपरुषविमर्शतः कविरामोदं मन्दपवन इव विन्देत् ॥ २३९९ ॥

 अपरुषविमर्शतः-- सरळतमविचारेण कोमलस्पर्शेन च । आमोदं-- हर्षं परिमळं च ॥

 न प्राचीनत्वं वा नव्यत्वं वाऽपि रम्यताहेतुः । गुण एवैको ग्रन्थं गुणिनो निर्मत्सरा इममुपाध्वम् ॥

 उपाध्वं उपासीढ्वमित्यर्थः । उपपूर्वकादासेर्लोट् मध्यमबहुवचनम् । 'धि च' इति सलोपः ॥

 प्राचीनमेव कवनं मधुरं न नवीनमिति कृतिप्रवराः । भवतां हृदि मा भवतादभिनवमपि मधु कुतो न मधुरं स्यात् ॥ २४०१ ॥

 प्रतनं वाऽस्तु नवं वा कवनं गुणवद्बुधैरुपादेयम् । द्वीपेऽन्यस्मिन्निह वाऽप्युदेतु रत्नं बुधा न नाददते ॥ २४०२ ॥

 योऽलंकृतीरिमा मुहुरालम्ब्य धियं प्रसाधयेत निजाम् । सोऽलं कृतीतरकृतीः कूलंकषधीः कथं लुलोकिषते ॥ २४०३ ॥

 यः कृती इमाः एतावता प्रबन्धेन निरूपिता अलंकृतीः अलंकारान् भूषणानीत्यपि । गम्यते आलम्ब्य प्राप्य निजां धियं स्वव

21*