पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
282
अलङ्कारमणिहारे

 सम्यग्विवेचनेन स्वच्छीभूतं व्यनक्ति गुणजातम् । तूलमिव काव्यजालं न यदि तथा जातु न गुणलेशमपि ॥ २३९५ ॥

 विवेचनेन विचारणेन । पक्षे बीजतः पृथक्करणेन । स्वच्छीभूतं निर्मलीभूतं सम्यग्गृहीतार्थमिति च । तूलमिव--कार्पास तूलमिव काव्यजालं गुणजातं सौशब्द्यादिगुणनिवहं तन्तुसन्तानं च व्यनक्ति ॥

 अनुगुणविवरणमसृणं ससितं नवनीतमिव रसज्ञानाम् । भव्यतमं काव्यमिदं नव्यमतिस्वाद्यतां प्रपद्येत ॥ २३९६ ॥

 ससितं--सशर्करं 'शर्करा सिता’ इत्यमरः । रसज्ञानां रसिकानां रसनानां च ॥

 भूयोगुणे प्रबन्धे प्रायो दोषं न गणयति रसज्ञः । मधुरमधुरसनरसिकस्सरघोद्गीर्णमिति चिन्तयति किं तत् ॥ २३९७ ॥

 गुणगणयिता कृताविह निरस्यति तरामनीषदपि दोषम् । दूरं त्वचं निरस्यति रसं रसयिता नरो रसालस्य ॥ २३९८ ॥

 सरसकविवचननलिनं समदकुतार्किकलुलाय