भवतीति तथोक्तः नप्रिय एव वकारलोपे नप्रिय इत्येवावशिष्ट इत्यर्थः । किंच नेतः नकारेण युक्तः प्रीतः प्रि इति वर्णसमुदायेन युक्तः अन्ततः यतः यकारेण सार्वविभक्तिकस्तसिः । भाति । वनप्रियशब्दस्यैवंविधत्वादिति भावः । अत्र वनप्रियो नप्रियः श्रीवचनरससंस्पर्धित्वेन कस्यापि प्रीत्यनाधायकत्वादित्यनुमितेराक्षेपात्प्रतीयमानत्वं पूर्ववदेव । एवमग्रेऽपि ॥
यथावा--
श्रुतिराह सुमज्जानिं पुमांसमत्रोपसर्जनीभूता । सुमती पुंवत्प्रथते परतन्त्रत्वं तदेनयोस्तुल्यम् ॥
श्रुतिः 'सुमज्जानये विष्णवे' इति श्रुतिः पुमांसं परमपुरुषं श्रीविष्णुं सुमज्जानिं सुमती शोभनवती जाया यस्य तं तथोक्तं कल्याणगुणशालिश्रीसहधर्मिणीकमित्यर्थः । आह । अत्र अनयोः श्रीश्रीनिवासयोर्मध्ये उपसर्जनीभूता भगवद्विशेषणीभूता सुमती श्रीः पुंवत् परमपुरुषवदेव प्रथते सर्वेश्वरत्वसर्वव्यापकत्वादिना प्रसिद्ध्यति । 'ईशानो भूतभव्यस्य, एष सर्वेश्वरः' इति भगवत इव ‘अस्येशाना जगतः' ईश्वरीग्ं सर्वभूतानां' इत्यादिना श्रियोऽपि सर्वेश्वरत्वश्रवणात् ॥
"गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता |
इयादिभिरुभयोरपि जगद्वयापकत्वकथनाच्च । यद्वा भगवानिव इयमपि प्राधान्येन प्रसिद्ध्यतीत्यर्थः । ‘सुमज्जानये, श्रियः कान्तोऽनन्तः, ब्रह्मणि श्रीनिवासे’ इति भगवत इव