पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
276
अलङ्कारमणिहारे

 कविनामाङ्कितगवाक्षबन्धो यथा--

 कृत्तोष्णाभविनिर्यद्रुचिमदविकसनमणिं कलये । विनतजनादरणकृतं फणिगिरितिलकं हरिं ध्येयम् ॥

 उष्णाभात् भानोः विनिर्यन्त्याः रुचेः प्रभायाः यो मदः तस्य विकसनं उन्मेषः तत् कृत्तं छिन्नं येन स तथोक्तः मणिः कौस्तुभो यस्य तं दिनमणिघृणिमदक्षपणनिपुणमणिवरोरस्कमित्यर्थः । विनतजनानां आदरणकृतं फणिगिरितिलकं हरिं ध्येयं कलये ध्यायामीत्यर्थः । लक्षणं तु--

उपर्युपरि कोष्ठानि भवेयुर्नव मध्यतः ।
तिर्यक्कोष्ठान्यपि तथा भवेयुर्मध्यतो नव ॥
उभयोरनयोः पार्श्वद्वये कोष्ठान्यनुक्रमात् ।
सप्त पञ्च तथा त्रीणि निष्पद्येरन्यथा तथा ॥
तुल्यप्रमाणा विलिखेत्तिर्यगूर्ध्वं च रेखिकाः ।
मध्यवीधीशिरःकोष्ठादारभ्य विलिखेद्बुधः ॥
एकं त्रीन्पञ्च सप्ताथ नव सप्त च पञ्च च ।
त्रीनेकं चेति पद्यस्य वर्णांस्तिर्यगनुक्रमात् ॥
ऊर्ध्वमध्यमवीधीस्थवर्णैः प्रमिळितैः क्रमात् ।
स्वोद्देश्यकविकाव्यादिनाम्नामुद्धृतिरिष्यते ॥
गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः ।