पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
274
अलङ्कारमणिहारे

 उद्धारस्तु--

 

 यथावा--

 मनसिजसमानरूपे हृदयं लगतादशेषजगतीशे । महसि लसमानचापे सदये लघु तादृशेऽरिजयतीव्रे ॥ २३७४ ॥

 अरिजयविषये तीव्रे तीक्ष्णे मनसिजसमानरूपे आनयतीत्यानं जगदुज्जीवयितृ रूपं मनसिजसमं आनरूपं यस्य तस्मिन्निति विग्रहः । यद्वा मान्यत इति मानं 'अकर्तरि च कारके' इति कर्मणि घञ् तादृशं च तत् रूपं च तेन सह वर्तत इति समानरूपं । मनसिज इव समानरूपमिति विग्रहः तस्मिन् कन्दर्पतुल्यमाननीयरूप इत्यर्थः । न तु समानं रूपं यस्येति विग्रहः । तथा सति 'ज्योतिर्जनपद' इत्यादिना समानशब्दस्य सभावापत्तेः । यद्वा समानशब्दात्प्रशंसायां रूपप्प्रत्ययः प्रशस्तं समानं समानरूपमिति विग्रहः । मनसिजस्य प्रशस्ते समाने इत्यर्थः । तत्तुल्यसौन्दर्ये इति भावः । लसमानं लसनशीलं चापं यस्य तस्मिन् । लसतेश्चानश् । 'लसमाननवांशुकः इति माघः । लघु क्षिप्रं हृदयं लगतादिति योजना । इदमपि पद्यं अयुग्माक्षरश्लिष्टगोमूत्रिकारूपम् ॥