पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
273
शब्दालङ्कारसरः (१२२)

न पुष्णात्वित्यर्थः । इयं युग्माक्षरश्लिष्टगोमूत्रिका । उद्धारक्रमस्तु षोडशदलपद्मनिरूपणावसर एव प्रदर्शितः ॥

भो गी श्व शै क्षि ति वि ला लो लो दा तु नः कु लं
यो गी श्व जा स्तु ति कु ला लो सौ धा तु नो कु लं

 इदमेव पद्यं प्रागुपदर्शितरीत्या त्रिवीधिकगोमूत्रिकाकारोऽपि भवति । एवमुत्तरत्रापि ॥

 यथावा--

 फणिशैलशिरोधामा नवजलजविलोचनस्सदाऽपायात् । मणिलोलदुरोदामा भववलनविमोचनस्स मां पायात् ॥ २३७२ ॥

 मणिना तरळरत्नेन लोलत् चलत् उरोदाम वक्षोहारो यस्य तथोक्तः सः भगवान् मां सदा अपायात् पायादिति योजना । इयमपि युग्माक्षरश्लिष्टगोमूत्रिकैव । अत्रापि प्रागुपदर्शितरीत्या बन्धलेखनप्रकारः ॥

 यथावा--

 माधव दूरे वचसां चरितं तव पापहारि दलितभवम् । मामव शौरेऽनुचरं चलितं भवतापतोऽरिकलितभयम् ॥ २३७३ ॥

 भवतापतः संसारतापेन चलितं अनवस्थितचित्तं अरिभिः कामादिभिः कलितं भयं यस्य तं अरिषड्वर्गत्रस्तमित्यर्थः । अनुचरं तव किंकरं “कुरुष्व मामनुचरम्" इत्येतदनेन ज्ञाप्यते । मां अव रक्ष । इयमयुग्माक्षरश्लिष्टगोमूत्रिका ॥