पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
258
अलङ्कारमणिहारे

 नाना अनेके ये मौनीनाः मुनिश्रेष्ठाः तेषां अननं प्राणयितृ नामामननं नामधेयानुकीर्तनाभ्यासः यस्यास्तां । उमायाः गौर्याः मनसा मान्यत इति माना तां ‘अकर्तरि च कारके संज्ञायाम्' इति कर्मणि घञ् । ‘संज्ञायाम्' इति प्रायिकमित्याहुः । घञन्तोऽप्ययं भेद्यलिङ्गः, ‘कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम्’ इति लिङ्गानुशासनात् । यद्वा मानो माननं भावे घञ् उमामनोमानोऽस्या अस्तीति तथोक्ता तां मां श्रियं आनमामि शरणं प्रपद्ये । अमाननां पूजाविधुरां अमां अलक्ष्मीं नूनं मा नाम एमि न प्राप्नोमि । लक्ष्मीशरणवरणानन्तरमलक्ष्मीर्नश्यत्येवेति भावः । 'तां पद्मनेमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे' इति श्रुत्यर्थोऽत्रानुसंहितः । इदमपि पूर्ववत् द्विव्यञ्जनमेव ॥

 यथावा--

 तान्तिं ततां नतानां तनुतां नत तनोत तने- तान् । नेता नाऽतनुतातऽनोतोन्नन्तून्नतान्ततऽ नन्तः ॥ २३५५ ॥

 तान्तिं ततां नतानां तनुतां नेता तनोतु तान् एतान् नेता नः अतनुतातः अनीतीन् नन्तॄन् नितान्ततः अनन्तः । इतिच्छेदः । ततां विस्तृतां नतानां तान्तिं ग्लानिं तनुतां कृशतां नेता प्रापयिता । नयतेस्तृन् । अतएव न कृद्योगषष्ठी । अतनोः प्रद्युम्नस्य तातः जनकः नेता स्वामी अनन्तः भगवान् नन्तॄन् शरणागतान् तानेतान् नः ‘ते वयं भवता रक्ष्याः' इत्युक्तरीत्या त्वदीयानस्मानित्यर्थः । अनीतीन् ईतिः पीडा अविद्यमाना येषां तान् निवृत्ताविद्यासंवलनबाधानिति यावत् । तनोतु