पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
244
अलङ्कारमणिहारे

यथासंख्येनार्थालंकारेण संकीर्णं चेति विशेषः । अमूनि गूढपादादीनि चित्राणि प्रहेळिकाभेदतया व्यवह्रियन्ते । तथाचोक्तं विदग्धमुखमण्डने--

व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् ।
यत्र बाह्यान्तरावर्थौ कथ्येते ताः प्रहेलिकाः ॥ इति ॥


अथ स्वरस्थानव्यञ्जनादिनियमचित्रम्

स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः ।
प्रोक्तश्चतुःप्रभृत्येष दर्श्यते सुकरः परः ॥

 दुष्करचित्रेषु मध्ये स्वरस्थानव्यञ्जनानां स्वराः अकारादयः अचः स्थानानि 'अकुहविसर्जनीयानां कण्ठः' इत्याद्युक्तानि कण्ठादिस्थानानि । व्यञ्जनानि हल्वर्णाः तेषां नियमः प्राक्तनैर्यो दुष्करतया प्रोक्तः एषः चतुःप्रभृति दर्श्यते । चतुःप्रभृतीत्यनेन चतुस्त्रिद्व्येकरूपतया चत्वारो भेदाः प्रदर्श्यन्त इत्युक्तं भवति । परः अन्यस्तु पञ्चादिः सुकरः अनतिप्रयाससाध्यत्वात् । अतस्तदुदाहरणं यथायथमूह्यम् ॥

 तत्र प्रथमं चतुस्स्वरनियमचित्रमुदाह्रियते । यथा--

 कामो मोहो लोभोऽप्यतिमात्रं गळति तव पदध्यानात् । भोगो वा योगो वा मोक्षो वाऽब्जाक्ष तव कटाक्षात्स्यात् ॥ २३२८ ॥

 अत्र अकार आकार इकार ओकारश्चेति चत्वार एव स्वरा निबद्धाः ॥