पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
243
शब्दालङ्कारसरः (१२२)

स्सन्, मायां तस्यामेव लक्ष्म्यां भक्तिमान् सन् त्वं तरेः भवजलधेरुत्तीर्णो भवेरिति भावः ॥

 यथावा--

 ओमेनायादस्यै जयतु भजे रक्षितोऽस्मि मम सिद्धिः । अस्तु कृपा न्यस्तात्मत्राणभरस्यास्ति नाणुरपि भारः ॥ २३२७ ॥

 अः अं एन आय आत् अस्य ए इति छेदः । एषां यथासंख्यं जयत्वित्यादिभिरन्वयः । अस् अं इति स्थिते ‘ससजुषो रुः’ इति रुत्वे ‘अतो रोरप्लुतादप्लुते’ इति रोरुत्वे गुणे 'एङः पदान्तादति' इति पूर्वरूपे ओमिति संहिता । अस्य ए इति स्थिते 'वृद्धिरेचि' इति वृद्धौ अस्यै इति संधिः । अः अकारवाच्यो भगवान् 'अ निषधे पुमान्विष्णौ ' इत्यनुशासनात् । जयतु । अं अकारवाच्यं तमेव भगवन्तं भजे । एन अकारवाच्येन भगवतैव रक्षितः अहं त्रात इत्यर्थः । तत्र हेतुः--आय तस्मै नारायणाय अस्मि तच्छेषभूतोऽस्मीत्यर्थः । आत् तस्मादेव भगवतः मम सिद्धिः ज्ञानादिसमस्तापेक्षितलाभः । अस्य अकारवाच्यस्य भगवतः कृपा अस्तु मयीति शेषः । ए अकारवाच्ये नारायणे श्रीमति न्यस्तात्मत्राणभरस्य अर्पितात्मरक्षाभरस्य ममेति शेषः । अणुरपि स्वल्पोऽपि भारः न । स्वरक्षणार्थस्वव्यापारान्तरलेशोऽपि नास्तीति भावः । अत्र ‘न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि’ इत्येतदनुसंहितम् । अत्र आपाततोऽर्थान्तरभ्रान्तिसंपादकेन संदर्भेण अशब्दस्य क्रमेण सप्तापि विभक्तयः वर्णान्तरानन्तरितैष्षड्भिरेवाक्षरैर्वञ्चिताः । पूर्वत्र न तथा । पूर्वोदाहरणम् श्लिष्टम् । इदमश्लिष्टं