पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
232
अलङ्कारमणिहारे

अथाव्ययाभासः


पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने ।
यथाऽव्ययवदाभासश्चित्रं तन्नाम तद्विदुः ॥

 यथा--

 सद्वारेनोहन्ता बहुधाभूयस्स्वधामवन्नामा । दोषातीतस्सुदिवाऽऽसमयासमयावनोद्यतः प्रापि ॥

 सद्वारेनोहन्ता द्वारा सह वर्तत इति सद्वाः' रेफान्तोऽयं शब्दः । यत् एन: अघं ‘कलुषं वृजिनैनोघम्' इत्यमरः । अविद्यारागद्वेषादिकारणकं पापमित्यर्थः । तस्य हन्ता निरासकः । स्वोपासकसमूलपूर्वोत्तराघनिराकरणधुरीण इत्यर्थः । तत्र हेतुमभिप्रयन्नाह--बह्विति । बहु चेतनाचेतनात्मना बहुप्रकारं विश्वं दधाति धारयति पुष्णाति चेति बहुधाः । आदन्तोऽयं विश्वपा इतिवत् । भूयः अतिशयेन बहु स्वधाम स्वाभाविकः प्रभावः । ‘गृहदेहत्विट्प्रभावा धामानि' इत्यमरः । तदस्यास्तीति तद्वत् नाम अभिधानं यस्य स तथोक्तः । धारकत्वात्पोषकत्वान्महामहिमनामवत्त्वाच्चास्य सकलदुरितानां समूलघातं हन्तृत्वमिति भावः । अतएव दोषातीतः दोषान् अतीतः ‘द्वितीया श्रितातीत’ इत्यादिना समासः अपहतपाप्मा ‘स एष सर्वेभ्यः पाप्मभ्य उदितः' इत्यादिश्रुत्यर्थोत्रानुसंधेयः । यद्वा भूयांसि स्वधामवन्ति तत्तच्छरीरवन्ति तत्तद्रूपवन्ति वा नामानि देवमनुष्यादिनामानि यस्य बहुधा इत्यनेनात्मत्वं अनेन तु नामरूपव्याकरणपूर्वकतत्तच्छरीरप्रवेशप्रयुक्ततत्तन्नामरूपभाक्त्वं च दर्शितम् । सुष्ठ दीव्यतीति सुदिवा । स्वाभावि