पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
231
शब्दालङ्कारसरः (१२२)

 यस्य यशोभिः व्याप्तो लोकः हरिणः पाण्डुरस्सन् पयोनिधीयति आत्मानं क्षीराब्धिमिवाचरति । पयोनिधिशब्दात् 'उपमानादाचारे' इति क्यच् । तं स्वयंभुवं अनितरकारणकं शंभुवं सुखभूमिं ईशं सर्वेश्वरं रमाधिभुवं श्रीवल्लभं शरणं व्रजेयमिति योजना । अत्र हरिण इति प्रथमान्तस्य यस्येति षष्ठ्यन्तपदसमभिव्याहारात् करिण इतिवत् षष्ठ्यन्ततया पयोनिधीयतीत्यत्र पय इति च्छेदेन निधीयतीति निपूर्वकाद्धाञः कर्मणि परस्मैपदितया व्रजेयमित्यत्र व्रजे अयमिति च्छेदेन व्रजतेरात्मनेपदितया शंभुवमित्यत्र समभिव्याहृतस्वयंभुवमितिवत् उवङादेशवत्तया चापशब्दत्वेनावभासादपशब्दवदाभासत्वम् ॥

 यथावा--

 श्रीनाथोर्थिजनानामभीष्टदानाय कल्पति वृषाद्रौ । प्रत्यर्थिजनानामप्यनिष्टदानाय कल्पति नितान्तम् ॥ २३१४ ॥

 पूर्वार्धे कल्पति कल्पतरुरिवाचरति । उत्तरार्धे कल्पति कल्पः प्रलय इवाचरतीत्यर्थः । ‘कल्पस्तु प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ । सुरद्रुमे विकल्पे च प्रत्ययश्चेत्समार्थता' इति रत्नमाला । अत्र कल्पतीति क्लृपधातोः परस्मैपदवदवभासादपशब्दाभासत्वं, तस्य नित्यमात्मनेपदित्वात् ॥