पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
229
शब्दालङ्कारसरः (१२२)

वम् । बहुधा महितं तेऽज स्थानं मे स्यात्कथं नु दुष्प्रापम् ॥ २३१० ॥

 हे हरे! अव रक्ष । त्वयि विषये स्नेहेन प्रेम्णैन तैलादिरसद्रव्येण लिप्तः दिग्धः चिरात् बहोः कालात् अभवम् । बहुधा महितं ते अजेति छेदः । हे अज! भगवन् बहुधा बहुप्रकारेण महितं पूजितं ते तव स्थानं परमं व्योम कथं नु दुष्प्रापम् एवं त्वयि संजातानुरागस्य सुप्रापमेव स्यादित्यर्थः । अत्रावलितोऽहंकृत इत्यत्र बहुधामहितं तेजस्थानमित्यत्र च अवलिप्ताहंकृतशब्दयोः धामतेजश्शब्दयोश्चैकार्थतया भासमानयोरनयोरुक्तरीत्या पदभङ्गेन भिन्नार्थयोर्निबन्धनात्सभङ्गः पुनरुक्तवदाभासः ॥

 अभङ्गो यथा--

 वाक्पतिगुरुसौम्यबुधश्लाघ्योऽच्युत भौममङ्गळनिधानम् । भानुसुतमन्दतावहपरमौदार्यश्चकास्ति भवदीयः ॥ २३११ ॥

 हे अच्युत! भवदीयः भवदनुग्रहगोचरो मनुजः वाक्पतयः वावदूकाः गुरवः श्रेष्ठाः सौम्यः अरौद्राश्च ये बुधाः विपश्चितः तैः श्लाघ्यः । भूमेरिदं भौमं यत् मङ्गळं कल्याणं तस्य निधानं आधारः । भानुसुतस्य कर्णस्य मन्दतावहं अल्पत्वसंपादकं ततोऽप्यतिशयितमित्यर्थः । तादृशं परमौदार्यं यस्य तथोक्तः चकास्ति । अत्र वाक्पतिगुरुशब्दयोः सौम्यबुधशब्दयोः भौममङ्गळशब्दयोः भानुसुतमन्दशब्दयोश्च बृहस्पतिरौहिणेयाङ्गारकशनैश्चररूपैकार्थतावभास उक्तरीत्या अभङ्गपदाश्रय इति ध्येयम् ॥