पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
228
अलङ्कारमणिहारे

ते कमला । भवतीष्टे प्रभवति ननु भगवन्नहिनगवसुंधराभरण ॥ २३०९ ॥

 दिननाथसदृक्प्रकाश अहिनगवसुंधराभरण ननु हे भगवन् ! ते तव कमला ते इति ‘लक्ष्मीपते तेऽङ्घ्रियुगम्’ इत्यत्रेव विभक्तिप्रतिरूपकमव्ययम् । न तु युष्मच्छब्दस्य ‘ते मयौ’ इति विहितस्ते इत्यादेशः दिननाथसदृक्प्रकाशेत्यामन्त्रितस्य ‘आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवद्भावेन पादादित्वात् तस्य चादेशस्य ‘पदस्य पदात्’ । अनुदात्तं सर्वमपादादौ’ इत्यपादादावेव विधानात् ते कमलेत्यनेन ‘सदा तवैवोचितया तव श्रिया’ इत्यत्रेव 'विष्णोः श्रीरनपायिनी' इत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारार्थ्यं प्रतिष्ठाप्यते । दीव्यति क्रीडां विदधाने भाति प्रकाशमाने प्रभवति प्रभविष्णौ इष्टे प्रिये भवति त्वयि विराजति भासते । अत्र दीव्यति भाति विराजति प्रकाशते इत्येतेषां ईष्टे प्रभवतीत्यनयोश्च आमुखे एकार्थकाख्यातवदाभासमानतया पौनरुक्त्यस्य उपपादितरीत्यान्वयसमयेऽन्यथा पर्यवसितत्वेनाख्याताश्रयोऽयं पुनरुक्तवदाभास इति बोध्यम् । काव्यप्रकाशकारमते तु--

शब्दैकनिष्ठश्शब्दार्थद्वयस्थश्चेत्यसौ द्विधा ।
सभङ्गाभङ्गभेदेन द्विधा शब्दैकसंश्रयः ॥

 असौ पुनरुक्तवदाभासः शब्दमात्रसमाश्रयः शब्दार्थोभयसमाश्रयश्चेति द्विविधः । तत्राद्यश्शब्दमात्राश्रयस्तु सभङ्गः अभङ्ग इति द्विविधः । तत्र सभङ्गः पुनरुक्तवदाभासश्शब्दैकगोचरो यथा--

 स्नेहेन हरे त्वय्यव लिप्तोऽहंकृतमतिश्चिरादभ