पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
205
शब्दालङ्कारसरः (१२२)

तस्याः महाभरणं शिरोमणिमित्यर्थः । नरसखं नारायणं शरणं रक्षितारमुपायं वा आपत् प्राप्नोत् । रक्षितृत्वेन वा उपायत्वेन वा अवृणोदित्यर्थः । स पुमान् कदाऽपि आपदां शरणं निवासभूतं सकलविपज्जन्मभूमिमित्यर्थः । भवं संसारं न भजेत । भगवति न्यस्तरक्षाभरस्य क्व पुनस्संसृतिसृत्यवतार इति भावः । भगवन्तं शरणमुपेयिवान् भवं शर्वं आपच्छरणं कदाऽपि न भजेत आपत्सु रक्षकतया न सेवेतेति च प्रतीयते । अत्र पूर्वार्धे उत्तरार्धे च चरमभागे यमकम् ॥

 अथ मध्यभागयमकम्--

 यथा--

 रघुजाय ते नमस्स्तान्न जायते यन्मुधा कदाचिदपि । जलजायतेक्षण जनव्रजा यतेरन्विधातुमिदमेव ॥ २२७३ ॥

 हे जलजायतेक्षण ! अनेन प्रपन्नेष्वतिप्रसन्नत्वं व्यज्यते । रघुजाय शरणवरणधर्मप्रवर्तनधुरीणरघुवंशजत्वकथनेनास्यापि तादृशव्रतदीक्षितत्वं द्योतितम् । अतएव 'सर्वलोकशरण्याय राघवाय’ इत्युक्तिः । ते तुभ्यं नमः ‘निवेदयत मां क्षिप्रम्’ इत्युक्तमात्मनिवेदनं ‘नमस्कारात्मकं तस्मै विधायात्मनिवेदनम्' इति ह्युच्यते । स्तात् भवतु । किं तेनत्यत्राह--यत् नमस्करणं कदाचिदपि मुधा न जायते निरर्थकं न संपद्यते । फलेग्रहितामेव भजत इति भावः । स्वानुष्ठितमात्मनिवेदनमेव सर्वैरनुष्ठेयमिति 'प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां समृद्धिम्’ इति न्यायेनाशस्ते–-जनेत्यादिना । जनव्रजाः पामरपरीक्षकसाधारण्येन सर्वे जननिवहाः इदमेव भगवते आत्मनिवेदनमेव विधातुं यतेरन् प्रार्थनायां लिङ् । यतन्ताम् । किमन्यैर्व्यभिचरितप्रयोजनैरुपायैः