पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
200
अलङ्कारमणिहारे

 हे हरे ! ‘हरिर्हरति पापानि’ इत्येतदत्र स्मर्तव्यम् । अघं दुःखं व्यसनं वा नुदति क्षिपतीत्यघनुदः । तस्य संबुद्धिः । ते तव चरणे मम दुरितं हरेते । यदहः यस्मिन्नहनि अत्यन्तसंयोगे द्वितीया । दहरे हृदयपुण्डरीके ते पूर्वोक्ते एते तव चरणे न ध्याते तदहः व्यर्थं निरर्थकम् । अत्र ‘यन्मुहूर्तं क्षणं वाsपि’ इति वचनार्थस्स्मर्तव्यः ॥

 यथावा--

 स भवान्यदि नो दयते जन्तोर्ज्ञानं तदाऽस्य नोदयते । कर्माणि न नोदयते तत्त्वां ध्यातुं रमाविनोद यते ॥ २२६६ ॥

 विनोदयतीति विनोदः रमायाः विनोदः रमाविनोदः तस्य संबुद्धिः । रमायाः विनोद विनोदहेतो इति वा हेतुहेतुमतोरैक्यम् । हे श्रीनिवासेत्यर्थः । स भवान् जन्तोः प्राणिनः नो दयते यदि दयतेर्लट् ‘अधीगर्थदय' इति कर्मणश्शेषत्वविवक्षया षष्ठी । तदा अस्य जन्तोः ज्ञानं निश्श्रेयसौपयिकमिति भावः । नोदयते नोदेति । अयतेर्लट् । स भवान् अस्येत्येतच्चानुषज्यते । अस्य जन्तोः कर्माणि पापरूपाणि न नोदयाते न निवर्तयते । नुदतेर्णिजन्ताल्लट् । यद्वा अयमित्यध्याहारः । अयं जन्तुः कर्माणि न नोदयते इति योजना । पापकर्मणः क्षयाभावे ज्ञानानुदयादिति भावः । 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः' इति हि स्मृतिः । तत् तस्मात् उक्ताद्धेतोः त्वां ध्यातुं यते यत्न करोमि । यततेर्लडुत्तमैकवचनम् । पापक्षयपूर्वकज्ञानोदयनिदानत्वाद्भवत्कृपायास्तत्संपादनाय त्वामुपासितुं यत्नवान्भवामीति निर्गळितोऽर्थः ॥