पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
197
शब्दालङ्कारसरः (१२२)

 जगतां स भवानीशः फणधरगिरिनाथ न तु भवानीशः । ब्रह्माऽपि भवानीशस्तदहं तव किंकरो भवानीशः ॥ २२६२ ॥

 हे फणधरगिरिनाथ! भवानेव जगतां ईशः स्वामी । भवानीशस्तु रुद्रस्तु न नेश इत्यर्थः । ब्रह्माऽपि नेशः । कुत इत्यत आह-- भवानीश इति । भवेन संसारेण अनीशः अस्वतन्त्रः संसारबन्धविवश इत्यर्थः । ‘अनीशया शोचति मुह्यमानः’ इति श्रुतेः । तत् तस्मात् रुद्रादीनां संसारपरतन्त्रत्वात् अहं भवबन्धान्मुमुक्षुरिति भावः । ईशः ईट्छब्ददष्षष्ठ्यन्तोऽयम् । निरुपाधिकतया सर्वेश्वरस्येत्यर्थः ‘जुष्टं यदा पश्यत्यन्यमीशं, ज्ञाज्ञौ द्वावजावीशनीशौ' इत्यादिश्रुतिभ्यः । तव ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात्’ इत्युक्तरीत्या भवसागराद्विनतानुद्धरतस्तवेति भावः । किंकरः भवानि भवेयम् । लोडुतमैकवचनम् । मुमुक्षुरहं ‘बद्धस्स्वयं किमु विमोचयिता बतान्यम्' इति न्यायेन स्वयमेव संसृतिबन्धमोमुह्यमानानुमानाथादीननादृत्य निखिलसंसृतिपाशबन्धनिर्धूननपरमाद्भुतशक्तेस्तवैव दास्यमभ्युपेयामिति भावः । अत्र ‘आ ब्रह्मस्तम्बपर्यन्ता’ इत्यादिप्रमाणान्यप्यनुसधेयानि । अत्र प्रथमपादान्त्यभागो भवानीश इति वर्णचतुष्टयात्मको द्वितीयादिपादत्रयान्त्यभागेष्वावर्तितः ॥

 यथावा--

 स्वधयैव भृशमनन्तं प्रलयदशायां वषाचलेशमनन्तम् । य उपास्ते शमनन्तं न वीक्षते बत स विन्दते शमनन्तम् ॥ २२६३ ॥