अथ भावशबलतालंकारसरः (१११)
भावाङ्गे भावशाबल्ये भावशाबल्यमुच्यते ।
यत्र भावशबलताया भावङ्गित्वं तत्र भावशबलत्वं नामालंकारः । भावानां शबलता नाम पूर्वपूर्वोपमर्देन प्रवृत्तिः । यथोक्तं—- ‘पूर्वपूर्वोपमर्देन तेषां शबलता मता’ । इति । तेषां भावानामित्यर्थः ॥
यथा-- (युग्मम्)
यास्याम्येव जनः किं पश्येन्मां तमसि किंनु विद्यात्सः । यदि पश्येद्ब्रूयान्मां कृष्णे रक्तां तदाऽस्मि धन्यैव ॥ २०१७ ॥
इति मन्दमन्दमन्धे तमसि चलन्तीं व्रजासिताब्जाक्षीम् । सरभसमभिमुखमुपयन् सुगाढमुपगूढवान् जयतु कृष्णः ॥ २०१८ ॥
अत्र यास्याम्येवेत्यौत्सुक्यं, जनः किं मां पश्येदिति शङ्का, तमसि किंनु विद्यात्स इति धृतिः, यदि पश्येदिति वितर्कः, ब्रूयान्मां कृष्णे रक्तामिति मतिः, तदाऽस्मि धन्यैवेति हर्षः इत्येतेषां पूर्वपूर्वोपमर्देनोत्तरोत्तरोत्तरवृत्तेर्भावशबलता । सा च कविगतभगवद्विषयकरतिभावस्याङ्गम् ॥
इत्यलंकारमणिहारे भावशबलतासर एकादशोत्तरशततमः.