पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
180
अलङ्कारमणिहारे

म् । तमचलमहिमाधारं सद्यो गोविन्दमादधतमिष्टम् ॥ २२४२ ॥

 उत्तुङ्गमध्यवनि कामन्दारोल्लसिसुविपुलक्रोडम् । तमचलमहिमाधारं सद्योगोऽविन्दमादधतमिष्टम् ॥

 उत्तुङ्गमध्यवनिकामन्दारोल्लासिसुविपुलक्रोडं तं अचलं अहिं आधारं सद्यः गोविन्दं आदधतं इष्टम् । उत्तुङ्गं अध्यवनि कामं दारोल्लासिसुविपुलोक्रोडं तं अचलमहिमाधारं सद्योगः अविन्दं आदधतं इष्टम्, इति पदच्छेदः । उन्नताः तुङ्गाः पुन्नागतरवः यस्यां तस्यां उत्तुङ्गायां 'पुन्नागे पुरुषस्तुङ्ग' इत्यमरः । मध्यवनिकायां मध्येऽरण्यमित्यर्थः । ये मन्दाराः पारिजाततरवः ‘पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः' इत्यमरः । तेषु उल्लासी शोभना विपुला भूदेवी यस्य सः सुविपुलः भूदेव्या श्लिष्ट इत्यर्थः । ईदृशः क्रोडः आदिवराहो यस्मिंस्त तथोक्तं, आदिवराहस्य भगवतश्शेषाद्रावाविर्भूतत्वात् । ‘क्रोडो भूदार इत्यपि' इति वराहपर्यायेष्वमरः । तं सुप्रसिद्धं अहिं अचलमित्यन्वयः । शेषाद्रिमित्यर्थः । शेषस्यैवाचलत्वेनावतीर्णतायाः पुराणप्रसिद्धतया अभेदेन निर्देशः । आधारं निवासस्थानं अदधतं कुर्वाणं तत्र निवसन्तमित्यर्थंः । इष्टं निरतिशयप्रीतिविषयं ‘प्रियो हि ज्ञानिनोऽत्यर्थं’ इति गानात् । ‘इषु इच्छायां’ कर्मणि क्तः । इष्टं सर्वैः पूजितमिति वा । यजतेः क्तः--

इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु ।
सप्ततन्तौ पुमान् क्लीबे संस्कारे क्रतुकर्मणि ॥

इति मेदिनी । उत्तुङ्गं सर्वैर्गुणैरतिमात्रमुन्नतं । अध्यवनि भूमौ । विभक्त्यर्थेऽव्ययीभावः । अध्यवनि अहिमचलमाधारमादधतमित्यन्वयः । कामं पर्याप्तं यथास्यात्तथा दारैः सह