पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
171
शब्दालङ्कारसरः (१२२)

अथ शब्दालंकारसरः (१२२)

इत्यर्थालंकृतयो यथामति निरूपिताः ।
निरूप्यन्तेऽथ दिङ्मात्रं शब्दालंकृतयः क्रमात् ॥

 यद्यपि प्रकाशकारादिभिरभ्यर्हितशब्दगत्वेनाभ्यर्हिता इति शब्दालंकारा अर्थालंकारेभ्यः पूर्वं निरूपिताः । काव्यानुशासनकारस्तु-- "अलंकाराः खलु द्विविधाः शब्दालंकारा अर्थालंकाराश्च, तत्रतावदर्थमधिकृत्य शब्दः प्रवर्तते, अतः प्रथममर्थालंकारा एवोदाह्रियन्ते" इत्याह । अतएव दण्डिप्रभृतिभिः अर्थालंकाराः प्रकर्षातिशयादादौ शब्दालंकारास्तु जघन्यतयाऽनन्तरं च निरूपिताः । अतएवास्माभिः काव्यानुशासनकृदादिमतावलम्बनेनार्थालंकारनिरूपणानन्तरमेव शब्दालंकारा निरूप्यन्ते ॥

 वर्णानुप्रासः--

 साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः ॥

 स्वरवैसादृश्येऽपि व्यञ्जनानां सादृश्यं यत् स वर्णानुप्रासः । व्यञ्जनसाम्यं यमकेऽप्यस्तीति तद्वारणाय मात्रपदम् । तेन स्वरव्यञ्जनसादृश्य एव यमकत्वस्य वक्ष्यमाणत्वान्न तत्रातिव्याप्तिः । स्वरव्यञ्जनसाम्यरूपलाटानुप्रासाव्याप्तिवारणाय वर्णपदं लक्ष्ये विशेषितम् । तथाच लाटानुप्रासस्य पदानुप्रासतया वर्णानुप्रासताविरहादलक्ष्यत्वेन न तत्राव्याप्तिर्दोषायेत्याहुः । रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः । तदुक्तम्-- ‘प्रकृष्टो वर्णविन्यासो रसाद्यनुगतो हि यः । सोऽनुप्रासः' इति ॥

 द्विधा भवेदयं छेकवृत्त्यनुप्रासभेदतः ॥

 अयं वर्णानुप्रासश्च छेकानुप्रासो वृत्त्यनुप्रासश्चेति द्विविधः ।

छेकाः विदग्धाः तदभिमतोऽनुप्रासश्छेकानुप्रासः । वृत्तिर्नाम निय

 ALANKARA IV.
14*