पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
166
अलङ्कारमणिहारे

लिङ्गं द्वितीयतुरीयपादगतवर्णपञ्चकानुलोमप्रतिलोमचित्ररूपशब्दालंकारैकवाचकानुप्रविष्टमिति ध्येयम् ॥

 यथावा--

 श्रीस्पृहयाळु दयाळु ग्रहयाळु जनस्य चरणपतयाळोः । श्रद्धाळुरतन्द्राळुर्भद्रानिद्राळु तद्भजे ब्रह्म ॥ २२२५ ॥

 श्रद्धाळुः अतन्द्राळुः अहं भद्रानिद्राळु जगन्मङ्गळविधानजागरूकमित्यर्थः । अत्र श्रीस्पृहयाळुत्वस्य दयाळुत्वं प्रति तस्य च चरणपतयाळुग्रहयाळुतां प्रति च हेतुत्वात्काव्यलिङ्गं मालारूपं तच्च भजनं प्रति हेतुरिति काव्यलिङ्गान्तरं च वृत्त्यनुप्रासेन सहैकवाचकानुप्रविष्टम् । ‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आळुच्' इति सूत्रोदाहरणानि सर्वाण्यप्युपेक्षितक्रमाणि रत्नावळीविशेषरीत्या निबद्धानीति विच्छित्तिविशेषोऽनुसंधेयः ॥

 यथावा--

 फणिगिरिमणिरमणि भवत्फणितिप्रणयो व्यतानि यदनेन । फाणितमभाणि तदयं खण्डविकारो न कारणान्तरतः ॥ २२२६ ॥

 हे फणिगिरिमणिरमणि! यत् यस्मात् अनेन खण्डविकारेण भवत्याः फणितौ वाचि प्रणयः विश्वासः सख्यमिति यावत् । व्यतानि व्यरचि । तत् तस्मात् अयं खण्डविकारः खण्डशर्कराविशेषः फाणितशब्देन व्यवाह्रियत । न तु कारणान्तरतः । फणित्या इदं फणितं फणितिप्रणयवत्त्वात्तत्संबन्धीत्यगद्यतेत्यर्थः । फणितिशब्दात् ‘तस्येदम्’ इत्यणि 'यस्येति च' इतीकारलोपे आदि