पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
165
संकरसरः (१२१)

तुरुपपदं यस्य तस्मिन् धातौ प्रकृतिभूते मध्यमस्स्यात् । मन्यतेस्तूत्तमस्स्यात्स चैकार्थवाचकस्स्यात्" इति तदर्थः । तथैव यतेथाः । अरे मुग्ध ! पुनस्संबोधनं परिहासातिशयं द्योतयति । नरेश्वरतां प्राप्स्यसि लप्स्यसे इति मन्ये अहं जानामीत्यर्थः । हार्दोऽभिप्रायस्तु--अरेनरेश्वरतामिति समस्तं पदम् । अरेः रेवर्णविधुरा या नरेश्वरता नश्वरतेत्यर्थः । तां प्राप्स्यसि भगवत्यौदासीन्येन दुर्देवता यदि भजेथाः तर्हि क्व नरेश्वरता लभ्येत । किंतु नश्वरतैवेति भावः । अत्र अरेनरेश्वरतामिति श्लेषः समालंकारविशेषस्याङ्गं, अयं च संकर: यमकेनैकवाचकानुप्रविष्टः ॥

 यथावा--

 ग्रस्तो जरादिभिस्त्वां विमायमेनं नमेयमाविर्भक्तिः । पुनरपि तव धाम्नि परे विराजमानं न मा जरा विशतु हरे ॥ २२२४ ॥

 हे हरे! जरादिभिः आदिशब्देन गर्भजन्मादिकं गृह्यते । ग्रस्तः अहं विभ्रंशिता माया येन सः विमायः तं निश्शेषप्रकृतिबन्धविनिवर्तकमित्यर्थः । मायाशब्दः प्रकृतिवाची । ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतेः । एनं त्वां आविर्भक्तिः प्रादुर्भूतभक्तिस्सन् नमेयं शरणं व्रजेयम् । एवमुपायं प्रार्थ्य फलं प्रार्थयते । परे तव धाम्नि विराजमानं अकर्मवश्यतया प्रकाशमानं 'स स्वराड्भवति' इति श्रुतिरिहानुसंहिता । मा मां जरा जरोपलक्षितगर्भजन्मादिकं पुनरपि न विशतु । त्वय्यात्मनिक्षेपावधिकमेव हि प्रकृतिबन्धमूलकं गर्भजन्मजरामरणादिपरिवर्तनमिति भावः । अत्र पूर्वार्धवाक्यार्थहेतुकः उत्तरार्धवाक्यार्थ इति काव्य