पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
161
संकरसरः (१२१)

श्रमानुगुणकर्मानुष्ठानादरस्यावश्यंभावात्तस्य सद्गतिसाधनत्वादिति भावः । अथ अर्चिरादिमार्गप्राप्त्यव्यवहितमेव समस्तासर्वापि सक्रिया अर्चिराद्यातिवाहिकक्रियमाणस्संमानः भवतीत्यनुषज्यते । वैपरीत्येऽनिष्टमाह--असद्गतिरित्यादिना । क्रियायोगे उक्तविधकर्मानुष्ठाने अनादरे सति असद्गतिर्भवति । ब्रह्मविदामप्याश्रमकर्मलोपे दूषितान्तःकरणतया विद्योत्पत्तेरेवासंभवादसद्गतिर्भवतीति भावः । यद्वा सतः परब्रह्मणश्श्रीनिवासस्य पदे चरणौ विन्दन्ति प्राप्नुवन्तीति तथोक्तानां विन्दतेः क्विप् । प्रपन्नानामित्यर्थः । संबन्धसामान्ये षष्ठी । क्रियायोगे कैंकर्यलाभे आदरे सति सद्गतिः जनानामिति शेषः । अनादरे असद्गतिरेव भवति । भगवत्प्रपन्नजनविषयककैंकर्यादरतदभावाभ्यां भगवदनुग्रहलाभतदभावौ भवत इति भावः । अत्र--

सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम् ।
न संशयोऽस्ति तद्भक्तपरिचर्यारतात्मनाम् ॥
अनादृतसुतं गेही पुरुषं नाभिनन्दति ।
तथाऽनर्चिततद्भक्तं भगवान्नाभिनन्दति ॥

इत्यादिकमनुसन्धेयम् ॥

 अन्यत्र-- सत् प्रशस्तं यत् पदं शब्दशास्त्रं तद्विदां व्याकरणवेतॄणामित्यर्थः । आदरे आदररूपार्थे विवक्षिते क्रियायोगे क्रियाशब्दसंबन्धे सत् गतिः इति छेदः । सत् सदित्याकारकमव्ययं गतिः गतिसंज्ञकं भवतीत्यर्थः । अथ समस्ता सदित्यनेन समासं प्राप्ता । क्रियेति विशेष्यकटाक्षेण स्त्रीत्वम् । क्रिया सत्क्रिया भवति सत्क्रियेति निष्पद्यते । अनादरे अनादररूपार्थे विवक्षिते क्रियाशब्दयोगे । असत् गतिरिति छेदः । असत् अस