पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
158
अलङ्कारमणिहारे

 शब्दार्थयोरेकवाचकानुप्रवेशसंकरो यथा--

 ननु भजति प्रत्यय इह तान्तोऽपि जहाति नैव बत सत्वम् । त्त्वदभक्तिभृत्यसत्वं स्वयमेत्य ददाति तस्य तन्तत्त्वम् ॥ २२१८ ॥

 हे भगवन्! इह लोके भजति त्वां सेवमाने पुंसि प्रत्ययः ज्ञानं ‘प्रत्ययोऽधीनविश्वासधीरन्ध्राचारहेतुषु । ख्यातौ सनादौ शपथे’ इति रत्नमाला । तान्तोऽपि कदाचिदाध्यात्मिकादितापरूपकारणवशात् स्वयं ग्लानोऽपि सत्त्वं सत्त्वगुणं प्राशस्त्यं वा नैव जहाति । त्वद्भक्तस्य ज्ञानं ग्लानिदशायामपि सत्त्वगुणसमृद्धिं प्रशस्ततां वा न विसृजतीत्यर्थः । अत्र ज्ञानशब्देन--

तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥

 इत्युक्तं घ्रह्मविषयकपरोक्षापरोक्षरूपोभयविधज्ञानं विवक्षितम् । भगवदभक्तज्ञानस्य व्यतिरेकमाह-- त्वदिति । त्वदभक्तिभृति त्वयि भक्तिमबिभ्राणे जने तु प्रत्यय इतीहाप्यनुषज्यते । प्रत्ययो ज्ञानं स्वयं आत्मना असत्त्वं सत्त्वगुणाभावं अप्रशस्तत्वं वा एत्य प्राप्य तस्य अभक्तिभृत तान्तत्वं ग्लानिं ददाति । त्वदभक्तनिष्ठं सामान्यशास्त्रादिज्ञानं त्वद्भक्तिविधुरतया स्वयं सत्त्वगुणानाधायकं अप्रशस्तं वा संपद्यमानं स्वाश्रयमेव निश्श्रेयसरूपपरमपुरुषार्थालाभेन ग्लपयतीति भावः । अन्यत्र भजति त्वदभक्तिभृतीत्येतदुभयमपि शब्दपरम् । भजति भजतीत्याकारके शब्दे प्रत्ययः शतृप्रत्ययः तान्तः तकारान्तः भवति । अपिशब्दो भिन्नक्रमस्समु