पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
154
अलङ्कारमणिहारे

भावः । ‘माङि लुङ्’ इत्यस्य सर्वलकारापवादत्वाल्लडर्थे लुङ् । अत्र शान्तरसस्य मुधैव जनिसंततिः प्रयातेत्यनेन सूचितो निर्वेदस्संचारी भावोऽङ्गमिति प्रेयोऽलंकारः । पूर्वार्धोदितायाः जनिसंततिवृधाभवनचिन्ताया उत्तरार्धप्रतिपादितनिजजनिप्रतीपतानिषेधप्रार्थनं प्रति हेतुत्वात्काव्यलिङ्गं चैकवाचकानुप्रवशेसंकीर्णे ॥

 यथावा--

 आदौ व्याध्युषितमथो बहुलभ्रष्टं कुतोऽलमुपरि पतेत् । यदि विजिगीषु भुजं ते व्यालकुलं व्याकुलं भवेन्नूनम् ॥ २२१४ ॥

 हे हरे! आदौ प्रथममेव व्याधिः उषितो यस्मिन् व्याधिग्रस्तमित्यर्थः । अथो अनन्तरं बहुलं भ्रष्टं अधःपतितं शक्तिविरहादिति भावः । व्यालकुलं भुजङ्गयूधं कर्तृ न त्वेको व्याळः । ते तव भुजं विजिगीषु यदि कुतः कस्माद्धेतोः अलं समर्थं सत् उपरि पतेत् द्वंद्वयुद्धार्थमिति भावः । किंतु व्याकुलं भवेत् जेतुमक्षमत्वादिति भावः । अन्यत्र व्यालकुलं व्यालकुलमिति पदं आदौ व्या इत्याकारकवर्णः अध्युषितो यस्मिन् अथो अनन्तरं बहु यथातथा लभ्रष्टं भ्रष्टलवर्णमित्यर्थः । अथ कुतः कुवर्णात् उपरि अनन्तरं लं लकारं पतेत् गच्छत् यदि पततिस्सकर्मकः । ‘द्वितीया श्रितातीतपतित’ इति समासविधानात् । ‘नरकं पतितः, दिवं गच्छ सुवः पत, पत भूमिमवाक्छिराः’ इत्यादिप्रयोगाच्च । व्याकुलं भवेत् व्यालकुलपदं भ्रष्टप्रथमलकारमात्रं व्याकुलमिति निष्पद्येतेत्यर्थः । अस्मिन् पक्षे तुशब्दोऽवधारणे । काव्यलिङ्गविषमयोरेकवाचकानुप्रविष्टत्वमत्र द्रष्टव्यम् ॥