पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
146
अलङ्कारमणिहारे

 हे फणिगिरीन्दो! विशदमयूखः स्वच्छांशुरपि त्वत्पदनखरुचेः मोषणे चौर्ये कृतरुचिः प्ररूढाभिलाषः अतएव अपशदतया जाल्मतया ‘निहीनोऽपशदो जाल्मः' इत्यमरः । परं विमयूखः विगळिततेजाः ‘मयूखस्त्विट्करज्वालासु' इत्यमरः । भवति । पक्षे विशदमयूखशब्दः अपशदतया अपगतौ शदौ शकारदकारौ यस्य स तथोक्तः तस्य भावस्तत्ता तया विमयूख इति निष्पद्यत इत्यर्थः । अत्र विरोधाभासविषमातिशयोक्तीनामेकवाचकानुप्रविष्टता ॥

 यथावा--

 भारतरसाऽखिलाऽच्युत भावत्कैः क्वाप्यवस्थितैर्विमला । प्रतिलोमवर्णभागपि ऋक्षै रात्रीव सारतरभैव ॥ २२०४ ॥

 हे अच्युत! अखिलाऽपि भारतरसा भारतवर्षभूमिः प्रतिलोमवर्णं ‘ब्राह्मण्यां क्षत्रियाज्जातः' इत्याद्युक्तविधं संकीर्णवर्णं भजतीति तथोक्ताऽपि तमःप्रचुरतया नीलवर्णभागपीति च । क्वाप्यवस्थितैरपि ‘क्वचिक्त्वचिन्महाभाग’ इत्युक्तरीत्या क्वचिक्त्वचिदवस्थितैरपीत्यर्थः । भावत्कैः भवदीयैः ऋक्षैः नक्षत्रैः रात्रीव विमला निर्दोषा स्वच्छा च सती सारतरा श्रेष्ठतरा भा दीप्तिः यस्यास्सा तथोक्तैव भवति । पक्षे अखिला समग्रवर्णा भारतरसा भारतरसेति शब्दव्यक्तिः प्रतिलोमवर्णभागपि प्रतिकूलाक्षरा सती सारतरभेत्येव निष्पद्यत इत्यर्थः । अत्र प्रतिलोमवर्णभाक्त्वरूपप्रतिबन्धकसद्भावेऽपि सारतरभात्वरूपकार्योदयलक्षणविभावनाविशेषस्य उपमायाश्च एकवाचकानुप्रवेशः ॥