पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
142
अलङ्कारमणिहारे

 यथावा--

 विपरीतदृक्सनातन नतनासेत्याह चेद्ब्रवीतु त्वाम् । कस्सुदृगनवधिककृपोन्नसमाचष्टेऽच्युतावनाटं त्वाम् ॥ २१९९ ॥

 हे सनातन पुराणपुरुष! विपरीतद्दक् यथावस्थितविरुद्धग्राही पुमान् त्वां सामुद्रिकोक्तमहापुरुषलक्षणसर्वस्वशालिनमिति भावः । नता निम्ना नासा यस्य स नतनासः तस्य संबुद्धिः हे नतनास इत्याहचेत् ब्रवीतु कामं ब्रूतां कोऽस्य निरोद्धा न हि विपरीतदृशस्सुदृग्भिर्यथावदुक्तमप्यर्थमुपाददत इति भावः । पक्षे यवन इव प्रतिलोमवणदर्शा सनातनेति शब्दं नतनासेति ब्रूतामित्यर्थश्चमत्कारातिशयाय । सुदृक् सम्यग्द्रष्टा कः पुमान् हे निरवधिककृप हे अच्युत! उन्नसं 'शुचिस्मितं कोमलगण्डमुन्नसम्' इत्युक्तरीत्या उन्नतनासिकं त्वां अवनाटं नतनासिकं आचष्टे । न कश्चिदपि सुदृक्तथा ब्रूयादिति भावः । 'अवात्कुटाराच्च' इति पूर्वसूत्रात् अनुवृत्तादवशब्दात् ‘नते नासिकायास्संज्ञायां टीटच् नाटच् भ्रटचः' इति नाटच्प्रत्ययः । नासिकाया नतं अवनाटं तद्योगान्नासिका अवनाटा । पुरुषोऽवनाटः । ‘अवटीटोऽवनाटश्चावभ्रटो नतनासिके' इत्यमरः । यद्वा नासयति न स्थापयतीति नासः आसंर्णिजन्तात् पचाद्यच् नशब्देन समासः । नतानां नासः नतनासः प्रणतजननिश्शेषयितेत्यर्थः । तस्य संबुद्धिः हे नतनास! इति ब्रवीतु अनवधिककृपया उन्नः आर्द्रः तस्य संबुद्धिः हे अनवधिककृपोन्न! 'समुन्नमुत्तं च' इत्यमरः । हे अच्युत त्वां एवं परमकारुणिकमिति भावः । अवनाटयतीत्यवनाटः तथोक्तं ‘नट अवस्कन्दने' चुरादिः । अवस्कन्दनं हिंसनं तस्मात् पचाद्यच् । समाचष्टे