पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
141
संकरसरः (१२१)

सीन्नो सदासीत्तदानीम्' इति श्रुतिशकलमात्रापातप्रतीयमानार्थपरितुष्टतया सर्वज्ञंमन्योऽनृजुधीरेवं ब्रूताम्, तत्स्वभावस्थितिरेव तादृशीति भावः । आसेति तिङन्तप्रतिरूपकमव्ययम् । पक्षे सदातनेति वर्णानुपूर्वविपरीतं पश्यतो जनस्य नतदासेति भासत इति प्रतीपदृशस्तथोक्तिर्भवतुनामेत्यर्थः । तं एवं विरुद्धार्थद्रष्टारं विपरीतानुपूर्वीदर्शिनं च पुरुषं तु आदृत्य संबोधयामहे मैवं वादीरिति सान्त्वयित्वा सम्यक्पश्येत्यावेदयामहे शास्त्रार्थम् ॥

अज्ञानाय तु यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां च पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥

इत्यज्ञाय ज्ञानदानस्य महाफलत्वश्रवणादिति भावः । तेन तादृशप्रतीपवचनेन का हानिः ? एवं बोधितोऽप्ययं प्रतीपवादितां न त्यजतिचेत्तद्वचनेन तव न काऽपि हानिर्भवेत् प्रत्युत तस्यैवेति भावः । यद्वा तं सदातनत्वेन प्रसिद्धं अत एव पुरुषं 'पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्’ इति निर्वचनगोचरं कालापरिच्छिन्नमित्यर्थः । इदमुपलक्षणं देशवस्तुपरिच्छेदराहित्यस्यापि । त्वा आदृत्येति छेदः । त्वा त्वां तेन नतदासेत्यनेन संबोधयामहे । नताः प्रणताः दासाः ‘दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः' इत्याद्युक्तरीत्या दासभूताः ब्रह्मेशानादयः यस्येति विगृह्य संबुध्यन्तेन तेन पदेन आमन्त्रयामहे इति भावः । तेनेत्यावर्त्यते । तेन प्रतीपवचनेन का हानिः तव न काऽपि हानिः प्रत्युत सर्वेश्वरत्वमेवोक्तं स्यादिति भावः । अत्र प्रतीपदर्शिकथितवचनस्यार्थान्तरपरिकल्पनलक्षणवक्रोक्त्यलंकारेण तादृशवचनरूपदोषेण हानिरूपदोषानुदयवर्णनात्मकोल्लासालंकार एकवाचकानुप्रविष्टतया संकीर्णः ॥