पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
133
संकरसरः (१२१)

 यथावा--

 त्वं सर्वनामवाच्यस्सर्वाद्यन्तस्थितो यदसि विश्वम् । त्वदधरं इतरो योऽच्युत नेममिहत्यं ब्रुवे तथा कमपि ॥ २१९० ॥

 हे अच्युत! त्वं सर्वनामवाच्यः सर्वैर्नामभिः ब्रह्मादिनामभिः वाच्यः असि । तत्र हेतुमाह-- यत् यस्मात्कारणात् सर्वस्य जगतः आदावन्ते च स्थितः । अन्तस्थित इत्यत्र अन्तेमध्येऽपि स्थित इति च योजनीयम् । अत एव विश्वं असि । सर्वजगच्छरीरकोऽसि । ‘यतो वा इमानि भूतानि' इत्यादिश्रुत्युक्तप्रक्रियया जगज्जन्मस्थितिप्रलयनिदानतया सर्वशरीरकत्वाच्छरीरवाचिनां शब्दानां शरीरिपर्यन्ततया ब्रह्मादिसर्वशब्दवाच्योऽसीत्यर्थः । ‘अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेति' इत्युपक्रम्य ‘नारायणात्समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते’ इत्यन्ता ‘ब्रह्मा नारायणः शिवश्च नारायणः’ इत्युपक्रम्य ‘नारायण एवेदं सर्वंम्' इत्यन्ता च श्रुतिरर्थतोऽनुसंहिता एवं जगद्ब्रह्मणोः कार्यकारणत्वनिबन्धनसामानाधिकरण्यप्रतिपादिकाः ‘तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इत्यादयः श्रुतयोऽपीहानुसन्धेयाः । यः इतरः त्वदधरः तत्तोऽपि न्यूनः । इहत्यं इहेत्यव्ययात् ‘अमेहक्वतसित्रेभ्य एव' इति नियमितः ‘अव्ययात्त्यप्' इति त्यप् । त्वत्कार्यभूतेऽस्मिन् जगत्युत्पन्नं इमं पूर्वोक्तं कमपि ब्रह्माणमपि तथा न ब्रुवे त्वामिव सर्वकारणतया सर्वशरीरकतया च सर्वशब्दवाच्यं सन्तं न वच्मि । तस्य सर्वस्याप्यनेवंभूतत्वादिति भावः । पक्षे विश्वं विश्वशब्दः त्वत् त्वच्छब्दः अधरः अधरशब्दः इतरः इतरशब्दः यः यच्छ