पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
132
अलंकारमणिहारे

गति । परिदृश्यतामनीदृक्पर इतरस्सम इतोऽस्ति को नाम ॥ २१८९ ॥

 हे नाथ! भवान् सर्वादौ सर्वस्य जगतः आदौ समुल्लसति प्रकाशते । सर्वजगत्कारणभूत इत्यर्थः । अस्मात् एतस्मात् त्वत्तः समुल्लसतीत्यावृत्त्या योजनीयम् । समुल्लसति प्रादुर्भावं प्राप्ते इत्यर्थः । अस्मिन् जगति भुवने अनीदृक् अनेवंविधः त्वमिव न जगत्कारणमित्यर्थः । इतः अस्मात्त्वत्तः परः उत्कृष्टः समस्तुल्यो वा इतरः कोनाम अस्ति? परिदृश्यतां पर्यालोच्यतामित्यर्थः । सर्वजगकारणभूतस्य तव कार्यभूते अस्मिन् ब्रह्मादिस्तम्बपर्यन्ते भुवने ईदृशजगत्कारणताविधुरः त्वत्कार्यभूतः कोऽन्यस्त्वत्तोऽप्युत्कृष्टस्समो वा स्यादिति भावः । 'न तत्समश्चाभ्यधिकश्च दृश्यते' इति श्रुतेः ॥

 अन्यत्र हे नाथ! भवान् भवच्छब्दः सर्वादौ सर्वादिगणे अस्मात् अविद्यमानः ङसिस्थानिकः स्मादित्यादेशो यस्य स तथोक्तः । अस्मिन् अविद्यमानः ङिस्थानिकः स्मिन्नित्यादेशो यस्य स तथोक्तश्च समुल्लसति । भवच्छब्दस्य सर्वनामगणपठितत्वेऽपि हलन्ततया अदन्तनिमित्तकौ 'ङसिङ्योः स्मात्स्मिनौ' इति विहितौ स्मात्स्मिन्नादेशौ न भवत इति भावः । इतः अस्मिन् सर्वनामगणे सार्वविभक्तिकस्तसिः । परः परशब्दः इतरः इतरशब्दः समः समशब्दः कः किंशब्दश्च । अनीदृशः भवच्छब्द इव स्मात्स्मिन्नादेशविधुरो न भवतीत्यर्थः । उक्तानामेतेषां सर्वनामगणपठितानां परादिशब्दानामजन्ततया स्मात्स्मिन्नादेशयोरवश्यंभावादिति भावः । अत्र प्रकृताप्रकृतश्लेषः वर्ण्यस्य भगवत उपमाऽनिष्पत्तिवचनरूपप्रदीपभेदश्चेत्यनयोरेकवाचकानुप्रवेशसंकरः ॥