पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१३२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
124
अलंकारमणिहारे

गतिं विन्दतीत्यर्थः । पक्षे नारिकेलं नारिकेलमिति पदं नाकेस्थि मत् ना के इति वर्णद्वयाविकृतिस्थितिशालि । क्वचन अवशिष्टाक्षरयोरित्यर्थः । व्यञ्जनयोः हलोः परिवृत्तितः रि ल इत्यक्षरस्थरेफलकारयोर्व्यत्ययादपीति यावत् । न तु तन्निष्ठयोरकाराकाररूपस्वरयोरपीत्यर्थः । तयोर्यथास्थानमेव स्थितत्वादिति भावः । अमुक्तार्थं अपरित्यक्तस्वाभिधेयमित्यर्थः । उक्तरीत्या नारिकेळशब्दस्य नाळिकेरमिति रूपान्तराबाप्तावपि तुल्यार्थकताया एव दर्शनादिति भावः । अत्र नारिकेळाधःपतनस्य श्रीकुचलक्ष्मीस्तेनमित्यादिपदार्थैस्समर्थनात्काव्यलिङ्गं अप्रस्तुतनारिकेळाधःपतनकार्यप्रशंसाया तत्कारणीभूतश्रीकुचसौन्दर्यभूमावगते कार्यनिबन्धनाप्रस्तुतप्रशंसा चैकवाचकानुप्रवेशेन संकीर्यते ॥

 यथावा--

 अहिगिरिविभुना विहितं प्रत्ययमिह कश्चिदातिशायनिकम् । प्राप्तोऽजादिश्लाघ्यं ज्यादेशे ज्येष्ठतां प्रशस्य इयात् ॥ २१८३ ॥

 कश्चित् प्रशस्यः प्रशंसार्हः पुमान् भाग्यवानिति यावत् । पक्षे प्रशस्यशब्दः आतिशायनिकं अतिशायनप्रयोजकं प्रकर्षप्रयोजकमित्यर्थः । "प्रयोजनम्" इत्यनेन ठक् । इह प्रयोजनशब्देन हेतुर्विवक्षितः । प्रयोजनं फलं कारणं च” इति व्याख्यानात् । पक्षे अतिशायनार्थक ‘अतिशायने तमबिष्ठनौ’ इति सूत्रेणातिशयविशिष्टार्थवृत्तेर्विहितमित्यर्थः । अतिपूर्वकाच्छेतेर्ल्युट् । अतिशयनमेवातिशायनं अस्मादेव निपातनाद्दीर्घः न तु सौत्रः । तेन लोकेऽपि दीर्घस्साधुः 'अबाधकान्यपि निपातनानि भवन्ति । तेन ह्रस्वोऽपि साधुः’ इति व्याख्यातारः । अतएव अजादिभिः ब्रह्मरुद्रादिभिरपि