पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
115
संकरसरः (१२१)

स्वान्ते मनसि तत् अनिर्वचनीयं गौरवं भक्तिमिति यावत् । भजति अथ सुशब्दतां शोभनश्शब्दः कीर्तिर्यस्य सः तस्य भावं 'शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि' इति रत्नमाला ॥

दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्सुशब्दो भवति तावत्स्वर्गे महीयते ॥

 इति भारतप्रयोगश्च । भगवति गौरवभागुत्तमकीर्तिमान् भवतीत्यर्थः। यः पुमान् अनेवंस्यात् भगवति गौरवं न तनुयात् सः कथंनु सुशब्दः सुकीर्तिः भवेत् । भगवदभक्तस्य कथं सुकीर्तिलाभस्स्यादित्यर्थः । अन्यत्र तत्पुरुषे तत्पुरुषसमासविवक्षायामिति यावत् । सुरपुंगवे सुरपुंगवशब्दे गौः अवं इति छेदः । समस्तः समासं प्राप्तः गौः गोशब्दः स्वान्ते स्वस्य चरमावयवभूते ओकारे अवं अवादेशं भजति । ‘गोरतद्धित लुकि' इति गोऽन्ततत्पुरुषाट्टचि चरमावयवस्य ओकारस्य 'एचोऽयवायावः' इत्यवादेशो भवतीत्यर्थः । अथ एवमवादेशानन्तरमेव सुशब्दतां साधुशब्दत्वं धत्ते । तत्पुरुषे गोशब्दस्य कृतसमासान्तस्यैव साधुत्वात् । यः तत्पुरुषे समस्तः गोशब्दः उत्तरपदभूतः अनेवंस्यात् समासान्तटजभावेन अवादेशं न प्राप्नुयात् सः कथं सुशब्दः साधुशब्दस्स्यात् । उक्तसमासान्तप्रत्ययस्य नित्यतया तदभावे तस्य साधुता कथं स्यादिति भावः । अत्र सौशब्द्यभाक्त्वस्य भगवद्भक्तिभाक्त्वरूपवाक्यार्थहेतुकत्वादेकं काव्यलिङ्गम् । अप्रस्तुतभक्तजनसौशब्द्यभाक्त्वस्वरूपकार्यप्रशंसया तत्कारणभूतभगवद्भक्तिरूपकारणस्य शुभप्रदानोत्कर्षप्रतीतेरेका कार्यनिबन्धनाऽप्रस्तुतप्रशंसा । एवमप्रस्तुतानेवंविधासौशब्द्यभाक्त्वरूपकार्यप्रशंसया तत्कारणभूतभगवदगौरवरूपकारण