पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/११२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
104
अलंकारमणिहारे

 यथावा--

 तव भक्तैरतिशुचिभिर्नाम्ना शुचिरवमतोऽनलो नूनम् । अहह विषाशनमुपयन् जीवनभङ्गाद्धिशान्ततां यातः ॥ २१५९ ॥

 अतिशुचिभिः--

योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिश्शुचिः ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥

 इत्युक्तप्रकारेण सर्वप्रकारशुद्धिशालिभिः त्वद्भक्तैः बहुभिरिति भावः । नाम्ना शुचिः नाममात्रेणैव शुचिरिति व्यवहार्यः न तु तद्वच्छुचितमः एक इति भावः । अनलः अवमतो नूनम् । अहहेति खेदे अद्भुते वा । विषाशनं विषोपलक्षितमन्नं उपयन् अश्नन्निति यावत् । जीवनभङ्गात् जीवितभ्रंशात् शान्ततां विनिष्टतां यातः । हीत्यवधारणे हेतौ वा ॥

 वस्तुस्थितिस्तु अहेत्यव्ययं अहहेत्येतदनतिरिक्तार्थकम् । हविषा आज्यादिना अशनं अभेदे तृतीया, हाविरभिन्नमशनं उपयन् जीवनभङ्गात् जलतरङ्गात् शान्ततां निर्वाणतां यात इति । अत्रानलकर्तृकविषाशनादेरुपपादितश्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढस्य भगवद्भक्तावमतत्वं न हेतुरित्यहेतोस्तस्य हेतुत्वेन संभावनायां चेदभिसंधिः तदा उत्प्रेक्षायां पर्यवसानं, उक्तविषाशनाद्यन्यथानुपपत्त्या तस्यावमतत्वकल्पनेचेत् अर्थापत्तौ, विषाशनादिहेतुना अवमतत्वसाधने चेत्तात्पर्यं तदा अनुमानालंकारे इति कविसंरम्भस्य नानामुखप्रसृततया अमीषां संदेहसंकरः ॥