पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१०८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
100
अलंकारमणिहारे

भवाः । अपि सुमनसश्च्यवन्ते वृथैव कतिचन महाफलाग्रहणात् ॥ २१५४ ॥

 माधवस्य विदूरसत्त्वाः दूरस्थितयः घनानां महतां जनानां आगमेन प्राप्त्या घनैः आगमैः शास्त्रैर्वा उल्लासिताः सुजातिभवाः सत्कुलप्रसूताः सुमनसो मनीषिणोऽपि कतिचन महाफलस्य निश्श्रेयसरूपस्य उत्तमफलस्य अग्रहणात् वृधैव च्यवन्ते भ्रश्यन्ति । अन्यत्र माधवस्य वसन्तस्य विदूरे सत्त्वं स्थितिः यासां ताः घनागमेन प्रावृषा उल्लासिताः विकासिताः शोभनाश्च ताः जातयः मालतीलताः तासु भवाः कतिचन सुमनसोऽपि पुष्पतां प्राप्ता अपि महतः फलस्य अग्रहणात् वृथैव च्यवन्ते । जातीकुसुमानां वसन्तसमये अनुन्मेषात् प्रावृषि विकासात् फलवत्त्वविरहात् वृथैव च्यवनं भवतीति भावः । अत्राप्रस्तुतजातीकुसुमप्रशंसा प्रस्तुतेषु उक्तविधेषु विद्वत्सु पर्यवस्यतीत्यप्रस्तुतप्रशंसा वा, प्रस्तुतविद्वद्वृत्तान्तेनाप्रस्तुतमालतीकुसुमव्यवहारस्फूर्तिरिति समासोक्तिर्वा, प्रकृताप्रकृतश्लेषो वेत्यनध्यवसायादेषां संदेहसंकरः ॥

 यथावा--

 त्वच्चरणसमं किसलयमासेव्याधश्शिराश्चिराद्बस्तः । कान्तस्स्तबकस्स्याद्यदि कमले त्वच्चरणपूजनार्हस्स्यात् ॥ २१५५ ॥

 हे कमले! बस्तः छागः चिरात् बहुकालं अधश्शिराः भक्त्या नम्रशीर्षस्सन् बस्तस्य निसर्गतस्तथात्वादिति हार्दम् । आसेव्य संपूज्य भक्षयित्वेति तु तत्त्वम् । कान्तः सुन्दरः स्तबकः कुसुमगुच्छश्चेत् त्वच्चरणकिसलयास्वादनफलभूतस्तबकजन्मतां