पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
92
अलंकारमणिहारे

योस्संकरमाहुः । तदेदमुदाहरणम्--

 देवे नानावेदे प्रथिते नित्यं स्थिता नतानवितुम् । देवेनानाऽवेदेवैषा मामपि रमा क्षमाजलधिः ॥

 नानावेदे नानाविधश्रुतौ, जात्येकवचनम् । प्रतिथे प्रसिद्धे सर्वेश्वरत्वेन सर्वेवेदप्रतिपाद्ये इत्यर्थः । देवे भगवति श्रीनिवासे नतान् शरणागतान् अवितुं त्रातुं नित्यं स्थिता क्षणमप्येतदवस्थानविरहे विनतजनापराधदर्शनजनितक्रोधोष्मलतया नैतद्रक्षणाभिमुख्यं भगवान् भजेतेति भावः । देवेनाना आनयति प्राणयतीत्याना पचाद्यच् देवानां इनाः प्रभवः इन्द्रादयो लोकपालाः तेषां आना प्राणयित्री क्षमाजलधिः मादृशापराधमर्षणनिपुणेति यावत् । एषां रमा मामपि अनवरतबहुविधापराधपरंपराकरणधुरीणमपीति भावः । अवेदेव रक्षेदेवेति संभवोक्तिः ॥

 यथावा--

 साऽवतु वृषगिरिभूषा सारसनाभा नदीनभाना सरसा । तद्भूषा साऽपिच या सारसनाभा नदीनभानासरसा ॥ २१४५ ॥

 सारसनाभा पद्मनाभा 'अच् प्रत्यंन्वव’ इत्यत्र अजिति योगविभागादच् । पृषोदरादित्वाद्वा अकारान्तत्वं निर्वोढव्यम् । नदीनभाना नदीनां इनः प्रभुः उदन्वान् तस्य भानमिव भानं प्रकाशो यस्यास्सा जलनिधिश्यामलमूर्तिरित्यर्थः । सरसा सानुरागा सानन्दा वा भूसहिता वा । सा वृषगिरिभूषा श्रीनिवास इति यावत् । अवतु इति पूर्वार्धार्थः । तद्भूषा तस्य श्रीनिवासस्यापि भूषा आभरणप्राया साऽपिच श्रीरपीति भावः । अव