पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
2
अलङ्कारमणिहारे

 इति भरतमुनिना विरुद्धाविरुद्धसजातीयविजातीयभावान्तरातिरस्कृतानन्दसूक्ष्मावस्थात्वेन लक्षिताः स्थायिनो नाम भावाः । तेषां चेतोवृत्तिविशेषाणां कारणकार्यसहकारिणः विभावानुभावव्यभिचारिभावशब्दैः काव्ये नाट्ये च प्रतिपाद्यन्ते । तद्यथारतिर्नाम स्थायी भावः तस्याः रतेः कारणानि लोकसिद्धानि तरुणनायकरहोदेशावस्थानकोकिलालापमाकन्दमन्दमारुतचन्द्रोदयमधुकरलतागृहवापीजलदस्तनितादीनि । तत्कार्याणि दर्शनस्पर्शनोपगूहनचुम्बनभुजवेल्लनादीनि । सहकारिणो निर्वेदादिभेदेन त्रयस्त्रिंशत् । यथा--

निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहस्स्मृतिर्धृतिः ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥
सुप्तिर्विबोधो हर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥
त्रासश्चैव विकल्पश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावास्समाख्यातास्तु नामतः ॥

 इति मुनिना लक्षिताः । एते च यथासंभवं नवानामपि स्थायिनां सहकारिणः । प्रकृते रतिरूपशृङ्गारस्थायिनः औत्सुक्यविस्मयावेगहर्षचपलतादयस्सहकारिणः । हासरूपस्थायिनो विकृतवस्तुदर्शनादयो विभावाः । वदनविकासनरदनप्रकाशनप्रभृतयोऽनुभावाः चापलत्रासादयो व्यभिचारिण इति । अनयैव दिशा रसान्तराणामपि विभावादयो रसार्णवसुधाकरादिप्रबन्धदर्शिभिरुन्नेयाः । एवममीभिर्विभावानुभावव्यभिचारिभिः काव्ये