पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
87
काव्यलिङ्गसरः (६२)

 यथावा--

 आदौ सश्रीकमथ त्वत्पदवसुहारिविप्रतीपमलम् । कमलं कलमत्वमयच्छ्रितान्यलिङ्गं वनान्तरेऽवात्सीत् ॥ १५६२ ॥

 हे पद्मे! इति पूर्वपद्यादनुषज्यते । कमलं आदौ सश्रीकं सशोभं सवैभवं वा सत् अथ अनन्तरं त्वत्पदवसुहारि त्वच्चरणश्रीहरं त्वद्भवनरुचिहरं च सत् अत एव विप्रतीपः अप्रतिद्वंद्वः मलः पापं मालिन्यं च यस्य तत्तथोक्तम् । जगज्जननीपदसंपदपहारादन्यत्किमतिशयितं दुरितं स्यादिति भावः । विगतः प्रतीपः प्रतिकूलः यस्य तदिति विग्रहः। कलमत्वं चोरत्वं व्रीहिसस्यत्वं च अगात् प्राप्नोत् । ततः अनन्तरं श्रितं अन्यलिङ्गं चिह्नान्तरं येन तत्तथोक्तं वेषान्तरप्रतिच्छन्नपूर्वरूपमिति यावत् । वने क्वापि विपिने जले चावात्सीत् वसति स्म । पक्षे कमलमिति पदं आदौ सश्रीः कः यस्य तथोक्तं प्रकाशमानकवर्णमित्यर्थः । अथ विप्रतीपौ मलौ मकारलकारौ यस्य तत्तथोक्तं व्यत्यासितमकारलकारमित्यर्थः । अत एव कलमत्वं कलमशब्दत्वं अगात् । श्रितं अन्यलिङ्गं लिङ्गान्तरं येन तत्तथोक्तम् । कमलशब्दत्वावस्थायां स्थितं क्लीबत्वं त्यक्त्वा पुल्लिङ्गतां प्राप्तमित्यर्थः । 'कलमो लेखनीचोरशालिकाक्षुरकेषु च' इति । कलमः पुंसि मेदिन्यां शालौ पाटच्चरेऽपि च' इति विश्वमेदिनीकोशाभ्यां कलमशब्दस्य पुल्लिङ्गतानुशासनादीति भावः । अत्रापि पूर्वोदाहरणवदेव सर्वं द्रष्टव्यम् ।