पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
85
काव्यलिङ्गसरः (६२)

एवेत्यर्थः । किंच वासुदेववामदेवशब्दयोः सुमतः सुकारमकाराभ्यां सार्वविभक्तिकस्तसिः । भेदः श्रौतः कण्ठरवेणोक्तः । अनयोः एवं विधयोः शब्दयोः अभेदं वदन् मूर्ख एवेत्यर्थान्तरमपि चमत्कारातिशयमाधत्ते । अत्र यो भातीत्यादिपूर्ववाक्यार्थेन अनयोरभिदामित्याद्युत्तरवाक्यार्थस्समर्थ्यते ॥

 यथावा--

 वशिनं नारायणमिह वदन्ति सन्ततमनन्तनिगमान्ताः । यदि नशिवं तं ब्रूयाद्यः कश्चित्स प्रतीपदृङ्नूनम् ॥ १५६० ॥

 अनन्ताः निगमान्ताः ‘सर्वस्य वशी । एको वशी ’ इत्यादयः उपनिषदः संततं नारायणं ‘एक ह वै नारायण असीत् । अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेय' इत्यादिश्रुतिभिस्सर्वजगत्कारणत्वेन जोघुष्यमाणमिति भावः । वशिनं वशः प्रभुत्वं आयत्तत्वं वा । सोऽस्यास्तीति वशी । तं तथोक्तं वदन्ति ‘वशो जनिस्पृहायत्नेष्वायत्तत्वप्रभुत्वयोः' इति विश्वः । ‘जगद्वशे वर्ततेदम्’ इत्यादिकमपीह स्मर्तव्यम् । तं एवं वशिनं सर्वेश्वरं यःकश्चित् नशिवं नशब्देन समासः । अकल्याणगुणं ब्रूयाद्यदि स एव वक्ता प्रतीपदृक् नूनं विरुद्धार्थद्रष्टैव । सर्वेश्वरत्वौपयिककल्याणगुणगणपरिपूर्णमप्यशिवं ब्रूयाच्चेत् तस्य श्रुतिप्रतिकूलार्थदृक्त्वे कस्संदेह इति भावः । यद्वा सर्वं जगद्यदायत्तमिति ब्रवीतिश्रुतिः तस्य सर्वनियन्तुः ‘नारायणाद्रुद्रो जायते' इति शिवस्यापि कारणतया तथैव श्रुत्या प्रतिपादितस्य ‘शिवश्च नारायणः’ इति कण्ठरवेणोक्तं कार्यकारणत्वनिबन्धनं नियाम्यनि-