पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
83
काव्यलिङ्गसरः (६२)

 यथावा--

 अग्रीयं शमवन्तं शरणं विन्दामहे शरण्य त्वाम् । पुर एवाशमयुक्तं पुनश्शरण्यान्तरं भजेम कुतः ॥ १५५७ ॥

 शरणे साधुः शरण्यः । तस्य संबुद्धिः हे शरण्य! भगवन् अग्रीयं परार्थ्यं निरतिशयमित्यर्थः । शं सुखं अवन्तं प्राप्नुव तं अवतेरवाप्त्यर्थकत्वेनानुशिष्टाच्छता । ‘कं ब्रह्म खं ब्रह्म’ इति निरतिशयविपुलसुखरूपत्वश्रवणात् ‘सुखविशिष्टाभिधानादेव च' इति सूत्रितत्वादिति भावः । त्वां, यद्वा अग्रीयं उक्तोऽर्थः शमवन्तं शान्तं अशनायाद्यूर्मिषट्कप्रतिभटमित्यर्थः । ‘यत्तच्छान्तमजरम्' इति श्रुतेः । इह अस्मिन् जन्मनि शरणं उपायं रक्षितारं च विन्दामहे । पुनः इतःपरमपीति यावत् । पुर एव आदावेव अशं सुखविहीनं अत एव अयुक्तं आश्रयणानर्हं च । यद्वा अशमयुक्तं अशान्तमित्यर्थः । शरण्यान्तरं अन्यं शरण्यं तु कुतो भजेम । न भजेमैवेत्यर्थः । पक्षे हे शरण्य! रक्षणसाधो अग्रीयं आद्यं शं शकारं अवन्तं प्राप्नुवन्तं त्वां भवन्तं शरणं गृहं लब्ध्वा पुर एव आदावेव अशं शकाररहितं अयुक्तं शकारस्थाने अकारयुक्तं शरण्यान्तरं अरण्यान्तरमित्यर्थः । अन्तरं मध्यं कुतो भजेम । रक्षणसाधु गृहं लब्ध्वा असुखमयुक्तं अरण्यान्तरं कुतो भजेमेत्यर्थश्च चमत्कारी । अत्र शरण्यत्वादिगुणशालिभगवच्चरणलाभरूपपूर्ववाक्यार्थेन अतादृशशरण्यान्तरभजनौदास्यरूपोत्तरवाक्यार्थसमर्थनं श्लेषमूलकव्यतिरेकगर्भमुपपादितचमत्कारान्तरपोषितं चेत्यवधेयम् ॥