पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
82
अलङ्कारमणिहारे

त्तरार्धवाक्यार्थेन समर्थनम् । अत्रापि पूर्ववदेव सदयत्वरूपपदार्थो वा हेतुः ॥

 यथावा--

 त्वच्चरणशरणवरणादकुतोभयतामलप्स्महीदानीम् । कीनाशमनादरणात्कीशमिवेक्षामहे महेश वयम् ॥ १५५६ ॥

 हे महेश! भगवन्!

यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परस्स मेहश्वरः ॥

 इति श्रुतेः । अतएव ‘महेश हातुं तव पादपङ्कजम्' इति यमुनाचार्याश्चाहुः । अलप्स्ममहि अलभामहि । इदानीं ईदृशलाभानन्तरमित्यर्थः । कीनाशं कृतान्तं क्षुद्रमित्यपि गम्यते । ‘कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु' इत्यमरः । अनादरणात् निर्लक्ष्यमित्यर्थः । कीशमिव कपिमिवेक्षामहे अकिंचित्करं मम्यामहे इति भावः । 'मर्कटो वानरः कीशः' इत्यमरः । पक्षे कीनाशशब्दं नः नाकारस्य आदरणं नादरणं ततो नञ्समासः अनादरणं तस्मात् नाकारत्यागादिति यावत् । कीशं कीशशब्दं ईक्षामहे । कीनाशशब्दं नाकारोत्सारणेन कीशशब्दं विद्म इत्यर्थः । इवशब्दो वाक्यालङ्कारे । स्पष्टमन्यत् । अत्र भगवच्चरणशरणवरणनिबन्धनाकुतोभयत्वप्राप्तिरूपपूर्ववाक्यार्थेन इदानीमित्यादेः कीनाशकीशतादर्शनरूपोत्तरवाक्यार्थस्य समर्थनम् । अयमेव पूर्वोदाहरणेभ्यो विशेषः । पूर्वत्र उत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनं हि कृतम् ॥