पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
80
अलङ्कारमणिहारे

 हे भगवन्! त्वच्चरणमेव त्वत्तोऽपि वरिष्ठं शरणं रक्षकं इति मत्वा शरणं वृणे उपायतया वृणोमि ।

उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् ।
वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥

 इत्यहिर्वुध्न्यसंहितोक्तेः । यदिदं त्वचरणं जगतां सुगतिं शोभनमुपाबं गम्यं स्थानं उत्तमदशां वा प्रददातीति तथोक्तः । तथाविधस्य भवतोऽपि सुगतिं ददाति, उक्त एवार्थः । रमणीयं गमनमिति तु वस्तुस्थितिः । ‘गतिः स्त्री मार्गदशयोर्ज्ञाने यात्राभ्युपाययोः' इति मेदिनी । अत्राप्युत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य समर्थनम् ॥

 यथावा--

 मा गास्तामससमतां माधवसक्तं कदाऽपि मानस भोः । सा न निवर्तेत ततस्सहस्रकृत्वोऽप्यधश्शिरःपतने ॥ १५५४ ॥

 भो मानस! त्वं माधवविमुखं सत् कदाऽपि तामससमतां तामसप्रकृतिभिस्तुल्यतां मा गाः । वैपरीत्ये अनिष्टमापद्येतेत्याह-- सेत्यादिना । ततः तामससमताप्त्यनन्तरं सा तामससमता सहस्रकृत्वः अधश्शिरःपतनेऽपि न निवर्तेत इति लोकोक्तिः । अतो मा तामसं भूरिति भावः । पक्षे सा तामससमतेति शब्दव्यक्तिः । अर्थगतं स्त्रीत्वं शब्दे आरोप्यत इत्यसकृदवोचाम । सहस्रकृत्वः अधश्शिरःपतनेऽपि वैपरीत्यप्राप्तावपीति यावत् । न निवर्तेत निवृत्तिप्रयुक्तवैलक्षण्यं नाप्नुयादिति यावत् । पूर्वानुपूर्वीविशिष्टैव भवतीति भावः । अत्राप्युत्तरार्धवाक्यार्थेन पूर्वा-