पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
79
काव्यलिङ्गसरः (६२)

ययोस्साम्यं गदितारं प्रत्युक्तिरूपतामभिप्रेत्येति ध्येयम् । अन्यथा तु पदार्थेन वाक्यार्थस्य समर्थनम् ॥

 यथावा--

 सङ्गस्य सतां महिमा निरवधिकोऽब्जाक्षसेविनां येन । द्युसदग्रणीर्ययातिर्द्युच्युतिमानपि सदग्रणीरासीत् ॥ १५५२ ॥

 अब्जाक्षसेविनां सतां सङ्गस्य महिमा निरवधिकः । येन सत्सङ्गमहिम्ना द्युसदां दिवौकसां अग्रणीः ययातिः द्युच्युतिमानपि त्रिदिवात्केनचिन्निमित्तेन भ्रष्टोऽपि सदग्रणीः सन्तः स्वदौहित्राः प्रतर्दनशिबिप्रभृतयः अग्रं नयन्तीयग्रण्यः उत्तारकाः यस्य स तथोक्त एवासीत् । त्रिदिवाद्भ्रेश्यन् यायातिस्सद्भिस्स्वदौहित्रैस्तारित इत्यैतिहासीकी कथा ॥

यथा यायातिस्सन्मध्ये पतितः पुनराप्तवान् ।
स्वःपदं तत्तथा सत्सु पतितो न विमुह्यति ॥

 इत्यादिप्रमाणान्यत्रानुसंहितानिः । पक्षे द्युसदग्रणीरितिशब्दः द्यु इति वर्णसमुदयच्युतौ सदग्रणीरिति निष्पन्न इत्यर्थान्तरमप्यत्र चमत्कारि । अत्राप्युत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनम् ॥

 यथावा--

 त्वच्चरणमेव शरणं त्वत्तोऽपि वरिष्ठमिति वृणे शरणम् । सुगतिं ददाति यदिदं जगतां सुगतिप्रदस्य भवतोऽपि ॥ १५५३ ॥