पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/८५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
73
काव्यार्थापत्तिसरः (६१)

अविद्यमानाः क धी न गा इति चत्वारो वर्णाः यस्य सः अकाधीनगश्चेत् बालिश इति निष्पद्यत इत्यर्थः । अत्र लुप्यमानानां वर्णानां क्रमो न विवक्षितः । अत्र किमुतान्ये इत्यापतदर्थान्तरमनुपात्तम् ॥

 सावरणान्ब्रह्माण्डान् कबळयतो युगपदमिततरशक्तेः । नाकादयोत्र लोकास्स्तोकाः केऽमी तवाच्युत पुलाकाः ॥ १५४५ ॥

 अत्र भगवतो युगपदनेकब्रह्माण्डकबळनेन तदन्तर्गतानां नाकादिलोकानां कबळनस्यार्थिकत्वं कैमुतिकन्यायेन प्रतिपाद्यते ॥

 यथावा--

 अखिलजगद्दुरितमुषो मद्दुरितमिदं जनार्दन कियत्ते । प्रलयाब्धिशोषणपटोः प्रचण्डकिरणस्य को नु वेशन्तः ॥ १५४६ ॥

 को नु कः पदार्थ इत्यर्थः । अत्र प्रतिवस्तूपमा महावाक्यार्थः । दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च । तत्रोपमेयवाक्यार्थगतायामर्थापत्तौ आपाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यर्थौ प्रकृतौ । उपमानवाक्यार्थगतायां त्वप्रकृतावितीदमेव पूर्वोदाहरणेभ्यो वैलक्षण्यम् । अनया दिशा अन्यदप्यूह्यम् ॥

 अत्र विचार्यते—- नेयं वाक्यवित्संमतायामर्थापत्तौ निविशते, आपादकस्यार्थस्यापतितमर्थं विना अनुपपत्तेरत्राभावात् । नापि यद्यर्थातिशयोक्तौ, तस्या विपरीतार्थ एव द्वयोर्विश्रान्तेः, न चेह तथा, आपादकस्य सिद्धत्वादापततश्च संभाव्यमानत्वा-

 ALANKARA--III.
10